29/01/2018
ದ್ವಾರಕೆಗೆ ಬಂದ ಶ್ರೀಕೃಷ್ಣ, ತನ್ನ ಮಡದಿಯರನ್ನು ಕಂಡು ಅವರನ್ನು ಅನುಗ್ರಹಿಸಿದ ಪರಿಯನ್ನು ವರ್ಣನೆ ಮಾಡತ್ತ, ಶ್ರೀಮದ್ಭಾಗವತ, ಶ್ರೀಕೃಷ್ಣ ಸ್ತ್ರೀಲೋಲುಪನೇ ಎಂಬ ಪ್ರಶ್ನೆಯನ್ನು ಕೈಗೆತ್ತೆಕೊಂಡು ಅದ್ಬುತವಾದ ಉತ್ತರಗಳನ್ನು ನೀಡುತ್ತದೆ. ಆ ಮಾತುಗಳ ವಿವರಣೆ ಇಲ್ಲಿದೆ. ಇಲ್ಲಿ ವಿವರಣೆಗೊಂಡ ಭಾಗವತ ಮತ್ತು ಭಾಗವತತಾತ್ಪರ್ಯದ ವಚನಗಳು — अथाविशत् स्वभवनं सर्वकाममनुत्तमम्। प्रासादा यत्र पत्नीनां सहस्राणि च षोडश। शतमष्टोत्तरं चैव वज्रवैडूर्यमण्डिताः ।। ६७ ।। पत्न्यः पतिं प्रोष्य गृहानुपागतं विलोक्य सञ्जातमनोमहोत्सवाः। उत्तस्थुरारात् सहसाऽसनाश्रयाः साकम्पितव्रीडितलोचनाननाः ॥ ६८ ॥ तमात्मजैर्दृष्टिभिरन्तरात्मना दुरन्तभावाः परिरेभिरे पतिम्। निरुद्धमप्यास्रवदम्बु नेत्रयोर्विलज्जतीनां भृगुवर्य वैक्लवात् ॥ ६९ ॥ यद्यप्यसौ पार्श्वगतो रहोगतस्तथापि तस्याङ्घ्रियुगं नवंनवम्। पदेपदे का विरमेत तत्पदाच्चलापि यच्छ्रीर्न जहाति कर्हिचित् ॥ ७० ॥ एवं नृपाणां क्षितिभारजन्मनामक्षौहिणीभिः परिवृत्ततेजसाम्। विधाय वैरं श्वसनो यथानलं मिथो वधेनोपरतो निरायुधः ॥ ७१ ॥ स एष नरलोकेऽस्मिन्नवतीर्णः स्वमायया। रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा ॥ ७२ ॥ उद्दामभावपिशुनामलवल्गुहासव्रीडावलोकनिहतो मदनोऽपि यासाम्। सम्मुह्य चापमजहात् प्रमदोत्तमास्ता यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः ॥ ७३ ॥ तमयं मन्यते लोको ह्यसङ्गमपि सङ्गिनम्। आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुधः ॥ ७४ ॥ यत्तदीशनमीशस्य प्रकृतिस्थोपि तद्गुणः । न युज्यते सदात्मस्थैः यथा बुद्धिस्तदाश्रया ।। ७५ ।। तदाश्रया बुद्धिः । तज्ज्ञानिनामपि प्रकृतिस्थानां न तत्सङ्गः किमु तस्येति व्यत्यासदृष्टान्तः । “व्यत्यासोनन्वयश्चैव प्रसिद्धो भूत एव च । सर्वसांहारिकश्चेति दृष्टान्तः पञ्चधा स्मृतः” इति ब्राह्मे ।। ७५ ।। तं मेनिरे खला मूढाः स्त्रैणं चानुव्रतं हरेः । अप्रमाणविदो भर्तुरीश्वरं मतयो यथा ।। ७६ ।। मतयो यथा यथामति मेनिरे ।। ७६ ।। इति श्रीमत्कृष्णद्वैपायनकृते श्रीमद्भागवते प्रथमस्कन्धे दशमोध्यायः।
Play Time: 56:45
Size: 7.60 MB