Upanyasa - VNU629

ಶ್ರೀಮದ್ ಭಾಗವತಮ್ — 114 — ಧೃತರಾಷ್ಟ್ರನ ನಿರ್ಯಾಣ

08/02/2018

ಧೃತರಾಷ್ಟ್ರ ತನ್ನ ಯೋಗಾಗ್ನಿಯಿಂದ ದೇಹತ್ಯಾಗ ಮಾಡಿದ ಸುದ್ದಿಯನ್ನು ಧರ್ಮರಾಜ ಸಂಜಯನಿಂದ ಕೇಳುತ್ತಾನೆ. ಆಗ ಆಗಮಿಸುವ ನಾರದರು, ಸಾವಿನ ಕುರಿತು ಮನುಷ್ಯರಿಗಿರಬೇಕಾದ ಎಚ್ಚರಗಳನ್ನು ತಿಳಿಸಿ ಹೇಳಿ ಧೃತರಾಷ್ಟ್ರ ದೇಹತ್ಯಾಗ ಮಾಡಿದ ರೀತಿ ಮತ್ತು ಅವನ ಪರಲೋಕದ ವಾಸದ ಕುರಿತು ಅದ್ಭುತವಾಗಿ ತಿಳಿಸಿ ಹೇಳುತ್ತಾರೆ. ಆ ಮಾತುಗಳ ವಿವರಣೆ ಇಲ್ಲಿದೆ. 

ಇಲ್ಲಿಗೆ ಭಾಗವತದ ಹನ್ನೆರಡನೆಯ ಅಧ್ಯಾಯ ಮುಗಿಯುತ್ತದೆ.  ಮುಂದಿನ ಉಪನ್ಯಾಸದಿಂದ ಹದಿಮೂರನೆಯ ಅಧ್ಯಾಯ ಆರಂಭ. 

ಇಲ್ಲಿ ವಿವರಣೆಗೊಂಡ ಭಾಗವತ ಮತ್ತು ಭಾಗವತತಾತ್ಪರ್ಯದ ವಚನಗಳು — 

अजातशत्रुः कृतमैत्रो हुताग्निर्विप्रान् नत्वा तिलगोभूमिरुक्मैः।
गृहं प्रविष्टो गुरुवन्दनाय न चापश्यत् पितरौ सौबलीं च।
भागवततात्पर्यम् — पितरौ कुन्तीधृतराष्ट्रौ । नचापश्यत्, तस्य मनसि तेषां विपद्भावो बभूव । अन्यथा महाभारतविरोधात् । स्कान्दे च — 
“भीमसन्तर्जितो राज्ञस्त्वनुज्ञां प्राप्य यत्नतः । 
धृतराष्ट्रो वनेवासमकरोद् वत्सरत्रयम् ।।
विदुरस्तदिदृक्षार्थमागतेषु वनं पुरात् । 
पाण्डवेषु तु राजानं प्रविश्यैकत्वमागतः ।।
ततो दावाग्निना दग्धं धृतराष्ट्रं च सौबलीम् । 
श्रुत्वा कुन्तीं च चिन्तां ते प्रापुः पाण्डुसुतास्तदा ।।
तांस्तदा नारदो विद्वान् शमयामास धर्मवित् । 
उक्त्वोत्तमां गतिं तेषां निष्ठां तात्कालिकीं तथा” इत्यादि। 
तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानसः।
गावद्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः।
अम्बा च हतपुत्रार्ता पितृव्यः क्व गतः सुहृत्।
भागवततात्पर्यम् — ब्रह्माण्डे च  —
“धृतराष्ट्रे मृते सूतः सञ्जयः पाण्डुसूनवे । 
गतिं शशंस कुन्त्याश्च गान्धारीधृतराष्ट्रयोः” इत्यादि ।
पितृव्योपि धृतराष्ट्र एव । द्विरुक्तिस्तात्यर्पार्था ।
“यत्राधिकं तत्परता बहुवारमपि ध्रुवम् । 
तद् वदन्ति महाप्राज्ञा लोकवेदानुसारतः” इति ब्रह्मवैवर्ते ।।32।।
अपि मय्यकृतप्रज्ञे हतबन्धुः स भार्यया।
आशंसमानः शमलं गङ्गायां दुःखितोऽपतत्।
पितर्युपरते पाण्डौ सर्वान् नः सुहृदः शिशून्।
अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः।
भागवततात्पर्यम् — पितृव्यौ गान्धारीधृतराष्ट्रौ ।।34।।
सूत उवाच — 
कृपया स्नेहवैक्लव्यात् सूतो विरहकर्शितः।
आत्मेश्वरमचक्षाणो न प्रत्याहातिपीडितः।
विमृज्याश्रूणि पाणिभ्यां विष्टभ्याऽत्मानमात्मना।
अजातशत्रुं प्रत्यूचे प्रभोः पादावनुस्मरन्।
सञ्जय उवाच — 
नाहं वेद व्यवसितं पित्रोर्वः कुलनन्दन।
गान्धार्या वा महाबाहो मुषितोऽस्मि महात्मभिः।
भागवततात्पर्यम् — मुषितोऽस्मीति प्रलापः ।।37।।
अथाऽजगाम भगवान् नारदः सहतुम्बुरुः।
प्रत्युत्थायाभिवाद्याऽह सानुजोऽभ्यर्चयन्मुनिम्।
युधिष्ठिर उवाच — 
नाहं वेद गतिं पित्रोर्भगवन् क्व गतावितः।
अम्बा वा हतपुत्राऽर्ता क्व गता च तपस्विनी।
भागवततात्पर्यम् — क्व गतित्यदृष्टापेक्षया ।।40।।
कर्णधार इवापारे भगवान् पारदर्शकः।
अथाऽबभाषे भगवान् नारदो मुनिसत्तमः।
नारद उवाच — 
मा कञ्चन शुचो राजन्यदीश्वरवशं जगत्।
लोकाः सपाला यस्येमे वहन्ति बलिमीशितुः।
स संयुनक्ति भूतानि स एव वियुनक्ति च।
यथा गावो नसि प्रोतास्तन्त्यां बद्धाश्च दामभिः।
वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिमीशितुः।
यथा क्रीडोपस्कराणां संयोगविगमाविह।
इच्छया क्रीडितुः स्यातां तथैवेशेच्छया नृणाम्।
यन्मन्यसे ध्रुवं लोकमध्रुवं चाथवोभयम्। 
सर्वथा न हि शोच्यास्ते स्नेहादन्यत्र मोहजात्।
भागवततात्पर्यम् — अपरिहार्यत्वादशोच्याः ।।44।।
तस्माज्जह्यङ्ग वैक्लव्यमज्ञानकृतमात्मनः।
कथं त्वनाथाः कृपणा वर्तेरन् बत माम-ते। 
कालकर्मगुणाधीनो देहोऽयं पाञ्चभौतिकः।
कथमन्यांस्तु गोपायेत् सर्पग्रस्तो यथाsपरम्।
अहस्तानि सहस्तानामपदानि चतुष्पदाम्।
अणूनि तत्र महतां जीवो जीवस्य जीवनम्।
तदिदं भगवान् राजन्नेक आत्माsत्मनां स्वदृक्।
अन्तरोऽनन्तरो भाति पश्य तं माययोरुताम्। 
सोऽयमद्य महाराज भगवान् भूतभावनः।
कालरूपोऽवतीर्णोऽस्यामभावाय सुरद्विषाम्।
निष्पादितं देवकृत्यमवशेषं प्रतीक्षते।
तावद् यूयमवेक्षध्वं भवेद् यावदिहेश्वरः।
धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया।
दक्षिणेन हिमवत ऋषीणामाश्रमं गतः।
भागवततात्पर्यम् — गमनकाले सह भ्रात्रा ।।51।।
स्रोतोभिः सप्तभिर्या वै स्वर्धुनी सप्तधाsभ्यगात्। 
सप्तानां प्रीतये नाना सप्तस्रोतः प्रचक्षते।
स्नात्वाsनुसवनं तस्मिन् हुत्वा चाग्नीन् यथाविधि।
अब्भक्ष उपशान्तात्मा स आस्ते विगतैषणः।
भागवततात्पर्यम् —  आस्त इत्याद्यतीतार्थे । “स एष तर्ह्यध्यास्त आसनं पार्थिवोचितम्” इत्यादिवत् । 
“सुप्-तिङुपग्रह-लिङ्ग-नराणां 
काल-हलच्-स्वर-कर्तृ-यङां च । 
व्यत्ययमिच्छति शास्त्रकृदेषां 
सोsपि च सिद्ध्यति बाहुलकेन” इति महाव्याकरणे । 
“व्यासादयो वर्तमानमतीतानागते तथा । 
व्यत्यस्यापि वदन्त्यद्धा मोहनार्थं दुरात्मनाम् ।।
पौर्वापर्यं यतो नैव सदैव परिवर्तनात् । 
अतश्च व्यत्ययादेतद्वदन्ति ज्ञानचक्षुषः" इति ब्राह्मे ।।53।।

जितासनो जितश्वासः प्रत्याहृतषडिन्द्रियः।
हरिभावनया ध्वस्तरजःसत्त्वतमोमलः।
विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम्।
ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे।
भागवततात्पर्यम् —
“विज्ञानात्मा विरिञ्चोयं यस्तस्मिंल्लीयते जगत् । 
यादांसि सागरे यद्वत् स क्षेत्रज्ञे जनार्दने ।।
हृदिस्थे च स च व्याप्ते स्वात्मन्येकीभवत्युत । 
प्रलयौ भेदवन्तौ तु पूर्वोक्तौ ब्रह्मकृष्णयोः ।।
अन्तस्थस्य बहिष्ठे तु तस्य तस्मिन्नभेदतः" इति ब्रह्मवैवर्ते ।
काले तस्य तत्र लयो भविष्यतीति ध्यानमात्रं विलापनम् ।
“अविद्यमानमपि यो ध्यायेतैवं विनिश्चितः । 
उच्यते तस्य कर्तेति तथैव मुनयोsमलाः ।।
जगद् विलापयामासुरित्युच्यन्तेsथ तत्स्मृतेः । 
नच तत्स्मृतिमात्रेण लयो भवति निश्चितम्" इति हि नारदीये ।
“स्वरूपं जायमानं च आकाशं च घटे द्विधा । 
स्वरूपं जायमाने तु घटे निभेदमेव हि ।।
भिन्नवद् व्यवहारस्य समर्थं तल्लये च तत् । 
तद्वदेवावतारेषु देहस्थश्च हरिः स्वयम् ।।
भिन्नवद् व्यवहाराय शक्तो लीने जगत्यपि । 
स एव पूर्ववज्ज्ञेयो निर्विशेषेण केशवः ।।
जायमानं घटे जाते जायते तल्लये तु न । 
तस्माद्भिन्नं महाकाशादेवं जीवोपि कीर्तितः ।।
उपाधेश्चैव नित्यत्वान्नैव जीवो विनश्यति । 
स्वरूपत्वादुपाधेश्च न भिन्नोपाधिकल्पनम् ।।
नचाभिन्नत्वमीशेन चिन्मात्रत्वं च युज्यते” इति ब्रह्मतर्के ।।55।।

ध्वस्तमायागुणोदर्को निरुद्धकरणाशयः।
निवर्तिताखिलाहार आस्ते स्थाणुरिवाचलः।
तस्यान्तरायो मैवाभूः सन्न्यस्ताखिलकर्मणः।
भागवततात्पर्यम्
“त्रिगुणात्मिका तथा ज्ञानं विष्णुशक्तिस्तथैव च । 
मायाशब्देन भण्यन्ते शब्दतत्त्वार्थवेदिभिः" इति नाममहोदधौ ।।
अत्र सत्वादयो मायागुणाः ।।56।।
स वा अद्यतनाद्राजन् परतः पञ्चमेऽहनि।
कलेवरं हास्यति स्वं तच्च भस्मीभविष्यति।
भागवततात्पर्यम् — "परावरे तथैवारादुभयार्थाभिधायिनः इति च ।।57।।
दह्यमानेऽग्निभिर्देहे पत्युः पत्नी सहोटजे।
बहिः स्थिता पतिं साध्वी तमग्निमनु वेक्ष्यति।
विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन।
हर्षशोकयुतस्तस्माद्गन्ता तीर्थनिषेवकः।
भागवततात्पर्यम् — एतत्सर्वं पूर्वमेव ज्ञात्वा तस्मादेव कारणात् विदुरस्तीर्थानि ययौ ।।60।।
इत्युक्त्वाथारुहत्स्वर्गं नारदः सहतुम्बुरुः।
युधिष्ठिरो वचस्तस्य हृदि कृत्वाजहाच्छुचः।


Play Time: 57:00

Size: 7.60 MB


Download Upanyasa Share to facebook View Comments
4301 Views

Comments

(You can only view comments here. If you want to write a comment please download the app.)
  • JOTHI PRAKASH LAKSHMANS RAO,DHARMAPURI

    7:35 PM , 09/02/2018

    ಗುರುಗಳಿಗೆ ಅನಂತಾನಂತ ನಮಸ್ಕಾರಗಳು.
    ‌
  • JOTHI PRAKASH LAKSHMANS RAO,DHARMAPURI

    7:35 PM , 09/02/2018

    ಗುರುಗಳಿಗೆ ಅನಂತಾನಂತ ನಮಸ್ಕಾರಗಳು.
    ‌
  • saraswathi vattam,Union city, California

    1:29 PM , 08/02/2018

    ನಿಮಗೆ ಹೇಗೆ ಕೃತಜ್ನ್ಯತೆ ಸಲ್ಲಿಸಬೇಕೋ ಗೊತ್ತಾಗುತ್ತಿಲ್ಲ.   
    ಧನ್ಯವಾದಗಳು
  • Niranjan Kamath,Koteshwar

    12:34 PM, 08/02/2018

    ಶ್ರೀ ನಾರಾಯಣ ಅಖಿಲ ಗುರೋ ಭಗವನ್ ನಮಸ್ತೇ. ಗುರುಗಳ ಚರಣಗಳಿಗೆ ನಮೋ ನಮಃ. ಶ್ರೀಮನ್ನರಾಯನನೇ ಸರ್ವಕ್ಕೂ ಕಾರಣ ಎನ್ನುವದು ಮತೊಮ್ಮೆ  ತಿಳಿಸಿ ಹೇಳಿದ ವಾಕ್ಯಗಳು ನೈಜವಾಗಿದೇ. ಧನ್ಯೋಸ್ಮಿ.
  • vani,chickaballapura

    10:20 AM, 08/02/2018

    ಗುರುಗಳೆ ನಾವು ಎಷ್ಟು ಭಾಗ್ಯಶಾಲಿಗಳು. ಇಂಥ ಘೋರ ಕಲಿಯುಗದಲ್ಲೂ ಭಾಗವತ ಕೇಳಿ ಸ್ವಲ್ಪವಾದರೂ ಭಗವತ್ ಚಿಂತನೆ ಮಾಡ್ತಾಇದ್ದೇವೆ
  • Santosh,Gulbarga

    9:21 AM , 08/02/2018

    ಶ್ರೀ ಗುರುಗಳಿಗೆ  ಅನಂತ  ಧನ್ಯವಾದಗಳು.....
  • Deshmukh seshagiri rao,Banglore

    6:02 AM , 08/02/2018

    ಶ್ರೀ ಗುರುಗಳಿಗೆ  ಅನಂತ ಅನಂತ ವಂದನೆಗಳು.