15/02/2018
ಕಲಿಯನ್ನು ನಿಗ್ರಹ ಮಾಡಲು ಹೊರಟ ಪರೀಕ್ಷಿದ್ರಾಜರು ಹೋದೆಡೆಯಲ್ಲ ತಮ್ಮ ತಾತಂದಿರ ಗುಣಗಳನ್ನು, ಶ್ರೀಕೃಷ್ಣನ ಮಾಹಾತ್ಮ್ಯವನ್ನು, ಅವರ ಸಖ್ಯವನ್ನು ಕೇಳಿ ಆನಂದಿಸುತ್ತಾರೆ. ಹೀಗೆ ಸಂಚಾರ ಮಾಡುವ ಸಂದರ್ಭದಲ್ಲಿ, ಕಾಲದ ಪರಿಣಾಮದಿಂದ ಮೂರು ಕಾಲು ಕುಂಟಾಗಿ ಒಂದು ಕಾಲಿನ ಮೇಲೆ ಎಲ್ಲ ದೇಹದ ಭಾರ ಹಾಕಿ ಎತ್ತಿನ ರೂಪದಲ್ಲಿರುವ ಧರ್ಮಪುರುಷನನ್ನು, ಗೋವಿನ ರೂಪದಲ್ಲಿ ದುಃಖಿತರಾಗಿ ನಿಂತಿರುವ ಭೂದೇವಿಯನ್ನು ಕಾಣುತ್ತಾರೆ. ಮಹಾಲಕ್ಷ್ಮಿಯ ಸ್ವರೂಪರಾದ ಭೂದೇವಿ ಬೇರೆ, ಭೂಮಿಗೆ ಅಭಿಮಾನಿಯಾದ ಭೂದೇವಿ ಬೇರೆ ಎಂಬ ತತ್ವವನ್ನು ನಿರೂಪಿಸಿ, ಆ ಭೂದೇವಿಗೆ ಧರ್ಮಪುರುಷ ಮಾಡುವ ಪ್ರಶ್ನೆಗಳನ್ನು ಇಲ್ಲಿ ವಿವರಿಸಲಾಗಿದೆ. ಇಲ್ಲಿ ವಿವರಣೆಗೊಂಡ ಭಾಗವತ ಮತ್ತು ಭಾಗವತತಾತ್ಪರ್ಯದ ವಚನಗಳು — सूत उवाच — यदा परीक्षित् कुरुजाङ्गले वसन् कलिं प्रविष्टं निजचक्रवर्तिते। निशम्य वार्तामनतिप्रियां ततः शरासनं संयुगरोचिराददे ।। १० ।। स्वलङ्कृतं श्यामतुरङ्गयोजितं रथं मृगेन्द्रध्वजमास्थितः पुरात्। वृतो रथाश्वद्विपपत्तियुक्तया स्वसेनया दिग्विजयाय निर्गतः ।। ११ ।। भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून्। किम्पुरुषादीनि वर्षाणि विजित्य जगृहे बलिम् ।। १२ ।। तत्रतत्रोपशृण्वानः स्वपूर्वेषां महात्मनाम्। प्रगीयमानं पुरतः कृष्णमाहात्म्यसूचनम् ।। १३ ।। आत्मानं च परित्रातमश्वत्थाम्नोऽस्त्रतेजसः। स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे ।। १४ ।। तेभ्यः परमसन्तुष्टः प्रीत्युज्जृम्भितलोचनः। महाधनानि वासांसि ददौ हारान् महामनाः ।। १५ ।। सारथ्यपारषदसेवनसख्यदौत्य- वीरासनानुगमनस्तवनप्रणामैः। स्निग्धेषु पाण्डुषु जगत्प्रणतस्य विष्णोः भक्तिं करोति नृपतिश्चरणारविन्दे ।। १६ ।। भागवततात्पर्यम् — स्निग्धेषु पाण्डुषु विष्णोः सारथ्यादिभिर्विशेषतो भक्तिं करोति । तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिमन्वहम्। नातिदूरे किलाश्चर्यं यदाsसीत् तन्निबोध मे ।। १७ ।। धर्मः पदैकेन चरन् विच्छायामुपलभ्य गाम्। पृच्छति स्माश्रुवदनां विवत्सामिव मातरम् ।। १८ ।। धर्म उवाच — कच्चिद् भद्रेऽनामयमात्मनस्ते विच्छायाsसि म्लायत यन्मुखेन। आलक्षये भवतीमन्तराधिं दूरेबन्धुं शोचसि कञ्चनेव ।। १९ ।। पादैर्न्यूनं शोचसि मैकपाद- मुताsत्मानं वा वृषलैर्भोक्ष्यमाणम्। अथो सुरादीन् हृतयज्ञभागान् प्रजा उत स्विन्मघवत्यवर्षति ।। २० ।। अरक्ष्यमाणाः स्त्रिय उर्वि बालान् शोचस्यथो पुरुषादैरिवार्तान्। वाचं देवीं ब्रह्मकुले कुकर्म- ण्यब्रह्मण्ये राजकुले कुलाग्र्यान् ।। २१ ।। किं क्षत्रबन्धून् कलिनोपसृष्टान् राष्ट्राणि वा तैरवरोपितानि। इतस्ततो वाशनपानवास- स्नानव्यवायोत्सुखजीवलोकम् ।। २२ ।। यद् बाधते भूरिभरावतार- कृतावतारस्य हरेर्धरित्रि। अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाणविलम्बितानि ।। २३ ।। इदं ममाsचक्ष्व तवाधिमूलं वसुन्धरे येन विकर्शितासि। कालेन वा ते बलिनां बलीयसा सुरार्चितं किं प्रभुणाssद्य सौभगम् ।। २४ ।।
Play Time: 33:08
Size: 7.60 MB