Upanyasa - VNU729

ಶ್ರೀಮದ್ ಭಾಗವತಮ್ — 177 — ಬ್ರಹ್ಮಾಂಡ ಮತ್ತು ಲೋಕಗಳ ಸೃಷ್ಟಿ

09/12/2018

ತತ್ವಗಳ ನಿರ್ಮಾಣವಾದ ನಂತರ ಬ್ರಹ್ಮಾಂಡ ಮತ್ತು ಅದರೊಳಗೆ ಲೋಕಗಳು ನಿರ್ಮಾಣವಾಗುವ ರೋಚಕ ಘಟನೆಯ ವಿವರ ಇಲ್ಲಿದೆ. ನಾಲ್ಕು ರೀತಿಯ ವಿರಡ್ರೂಪಗಳ ನಿರೂಪಣೆಯೊಂದಿಗೆ. 

 ತ್ರಿಮೂರ್ತಿಗಳಾದ ಬ್ರಹ್ಮ-ವಿಷ್ಣು-ಮಹೇಶ್ವರರ ಕುರಿತ ವಿವರ ಇಲ್ಲಿದೆ. 

ಇಲ್ಲಿಗೆ ಎರಡನೆಯ ಸ್ಕಂಧ, ಐದನೆಯ ಅಧ್ಯಾಯದ ಅರ್ಥಾನುಸಂಧಾನ ಇಲ್ಲಿಗೆ ಮುಗಿದು ಮಧ್ವಪತಿಗೆ ಸಮರ್ಪಿತವಾಗುತ್ತದೆ. 

ಇಲ್ಲಿ ವಿವರಣೆಗೊಂಡ ಶ್ರೀಮದ್ ಭಾಗವತ ಮತ್ತು ಭಾಗವತತಾತ್ಪರ್ಯದ ವಚನಗಳು — 

तामसादपि भूतादेर्विकुर्वाणादभून्नभः।

तस्य मात्रा गुणः शब्दो लिङ्गं यद् द्रष्टृदृश्ययोः ।। २४ ।।

भागवततात्पर्यम् ।

“पञ्चेन्द्रियाभिमेयत्वान्मात्रागुण इतीरितः” इति मात्स्ये । 

“शब्देनैव परो द्रष्टा ज्ञायते जगदेव च” इति विष्णुसंहितायाम् ।


नभसोऽथ विकुर्वाणादभूत् स्पर्शगुणोऽनिलः 

परान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम् ।। २५ ।।

भागवततात्पर्यम् ।
 
“सर्वचेष्टयितृत्वात्तु प्राणोऽभिभवशक्तितः।

ओजस्त्वनभिभाव्यत्वात् सहश्च स्वेच्छया कृतेः।

बलं विधारकत्वाच्च विधृतिर्वायुरुच्यते” इति च भारते ।

वायोरपि विकुर्वाणात् कालकर्मस्वभावतः । 
 
उदपद्यत तेजो वै रूपवत् स्पर्शशब्दवत् ।। २६ ।।

तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम् ।

रूपवत् स्पर्शवच्चाम्भो घोषवच्च तदन्वयात् ।। २७ ।।

विशेषस्तु विकुर्वाणादम्भसो गन्धवानभूत् ।

परान्वयाद् रसस्पर्शरूपशब्दगुणान्वितः ।। २८ ।।

वैकारिकान्मनो जज्ञे देवा वैकारिका दश ।
 
दिग्वातार्कप्रचेतोश्विवह्नीन्द्रोपेन्द्रमित्रकाः ।। २९ ।।

भागवततात्पर्यम् ।

“अनाद्यनन्तोऽपि हरिर्वैकारिकगणेष्वजः । 

अवतीर्णः पदाङ्गुष्ठमध्यास्ते विश्वभुग् विभुः ।।

पाददेवस्तु यज्ञोऽन्यस्तं प्रविश्य हरिः स्वयम् । 

सर्वं विधारयन् देहे वर्ततेऽनन्तशक्तिधृक्” इति वह्निपुराणे ।

तैजसात् तु विकुर्वाणादिन्द्रियाणि दशाभवन् ।

ज्ञानशक्तिः क्रियाशक्तिर्बुद्धिः प्राणस्तु तैजसः ।। ३० ।।

श्रोत्र-त्वग्- घ्राण-दृग्-जिह्वा-वाग्-दोर्मेढ्राङ्घ्रि-पायवः ।

य एतेऽसङ्गता भावा भूतेन्द्रियमनोगुणाः ।

यदायतननिर्माणे न शेकुर्ब्रह्मवित्तम ।। ३१ ।।

तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः ।

सदसत्वमुपादाय नो भयं ससृजुर्ह्यदः ।। ३२ ।।

भागवततात्पर्यम् — 

सदसत्त्वं व्यक्ताव्यक्तत्वम् । नः। अदः ब्रह्माण्डम् । ब्रह्माण्डं हि वदन्ति जीवानां भयकारणम् । तत्र हि संसृतिः ।

“आकाशवायू त्वव्यक्ते इतरेऽण्डे प्रकाशिताः । 

तथात्वाद् बाह्यभूतानामण्डस्थानां च सा गतिः” मात्स्ये ।

वर्षपूगसहस्रान्ते तदण्डमुदकेशयम् ।

कालकर्मस्वभावस्थो[ऽ]जीवो[ऽ]जीवमजीजनत् ।। ३३ ।।

भागवततात्पर्यम् — 

कालकर्मस्वभावस्थः अजीवः परमेश्वरः अजीवं स्वात्मानमजीजनत् । 
तदण्डं यथा स्वात्मानं प्रसूते तथा चकार ।

“यः प्राणधारणं प्राणप्रसादात् कुरुतेऽनिशम् ।

स जीव इति सन्दिष्टस्तदन्योऽजीव उच्यते ।।

यत्प्रसादात् स तु प्राणः कुरुते स्वस्य धारणम्” इति वायुप्रोक्ते ।

“कालकर्मस्वभावस्थो वासुदेवः परः पुमान् । 

अकरोदण्डमुद्वृद्धमात्मप्रसवकारणम्” इति ब्रह्माण्डे ।

 जीव इति वा । 

“प्राणं धारयते यस्मात् स जीवः परमेश्वरः । 

अजीवोऽपि महेतेजास्त्वथवा जीवयन् जगत्” इति स्कान्दे ।

स एव पुरुषस्तस्मादण्डं निर्भिद्य निर्गतः ।

सहस्रोर्वङ्घ्रिबाह्वक्षिः सहस्राननशीर्षवान् ।। ३४ ।।

भागवततात्पर्यम् ।

“अण्डे जातौ पुमांसौ द्वौ हरिर्ब्रह्मा तथैव च । 

अनादिस्तु हरिस्तत्र ब्रह्मा सादिरुदाहृतः” इति स्कान्दे ।

यस्येहावयवैर्लोकान् कल्पयन्ति मनीषिणः ।

ऊर्वादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः ।। ३५ ।।

भागवततात्पर्यम् ।

“हरेरवयवैर्लोकाः सृष्टा इति विकल्पनम् । 

साक्षात् सत्यमतोऽन्यस्माद् व्यावहारिकमुच्यते” इति मात्स्ये ।

पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवः ।

ऊर्वोर्वैश्यो भगवतः पद्भ्यां शूद्रो व्यजायत ।। ३६ ।।

भागवततात्पर्यम् ।

“ब्राह्मणो मुखमित्येव मुखात् जातत्वहेतुतः । 

यथाऽवदच्छ्रुतौ तद्वद् जीवो ब्रह्मेति वा भवेत्” इति ब्राह्मे ।

भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः ।

हृदा स्वर्लोक उरसा महर्लोको महात्मनः ।। ३८ ।।

ग्रीवायां जनलोकश्च तपोलोकोऽस्य नेत्रयोः ।

मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः ।। ३९ ।।

तत्कट्यामतलं कॢप्तमूरुभ्यां वितलं विभोः ।

जानुभ्यां सुतलं क्लृप्तं जङ्घाभ्यां तु तलातलम् ।। ४० ।।

महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् ।

पातालं पादतलत इति लोकमयः पुमान् ।। ४१ ।।

भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकस्तु नाभितः ।

स्वर्लोकः कल्पितो मूर्ध्नि इति वा लोककल्पना ।। ४२ ।।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितेन 
श्रीमद्भागवततात्पर्यनिर्णयेन संयुक्ते 
श्रीमत्कृष्णद्वैपायनकृते श्रीमद्भागवते 
द्वितीयस्कन्धे पञ्चमोऽध्यायः ।





Play Time: 48:35

Size: 5.54 MB


Download Upanyasa Share to facebook View Comments
6160 Views

Comments

(You can only view comments here. If you want to write a comment please download the app.)
  • Vishwanandini User,Kundapura

    1:04 PM , 10/12/2018

    Explanation is too good
    हारिः.औं