Upanyasa - VNU768

ಶ್ರೀಮದ್ ಭಾಗವತಮ್ — 205 — ಪುರಾಣದ ಹತ್ತು ಲಕ್ಷಣಗಳು

06/05/2019

ಒಂದು ಗ್ರಂಥ ಪುರಾಣ ಎಂದು ಕರೆಸಿಕೊಳ್ಳಬೇಕಾದರೆ ಅದರಲ್ಲಿರಬೇಕಾದ ಹತ್ತು ಲಕ್ಷಣಗಳ ಅಪೂರ್ವ ವಿವರ ಇಲ್ಲಿದೆ. 

ಪ್ರತೀನಿತ್ಯ ಪೂಜೆ ಮಾಡುವ ವ್ಯಕ್ತಿ, ವಿಶೇಷವಾದ ಸಂದರ್ಭಗಳಲ್ಲಿ ಅಥವಾ ವಿಶೇಷ ಫಲಕ್ಕಾಗಿ ವಿಶೇಷ ಪೂಜಾದಿಗಳನ್ನು ಮಾಡಬೇಕೆ ಮಾಡಬಾರದೆ ಎಂಬ ಪ್ರಶ್ನೆಗೆ ಭಾಗವತ ನೀಡಿದ ಉತ್ತರ, ನಾರದರ ಕಾರುಣ್ಯ ಮಾಹಾತ್ಮ್ಯದ ಚಿಂತನೆಗಳೊಂದಿಗೆ. 

ಇಲ್ಲಿ ವಿವರಣೆಗೊಂಡ ಶ್ರೀಮದ್ ಭಾಗವತ ಮತ್ತು ಭಾಗವತತಾತ್ಪರ್ಯಗಳ ವಚನಗಳು — 

प्रजापतिर्धर्मपतिरेकदा नियमान् यमान् ।
भद्रं प्रजानामन्विच्छन्नाऽचरत् स्वार्थकाम्यया ।। ३९ ।।

तं नारदः प्रियतमो रिक्थादानामनुव्रतः ।
शुश्रूषमाणः शीलेन प्रश्रयेण दमेन च ।। ४० ।।

मायां विविदिषुर्विष्णोर्मायेशस्य महामुनिः ।
महाभागवतो राजन् पितरं पर्यतोषयत् ।। ४१ ।।

भागवततात्पर्यम् — मायां माहात्म्यं विविदिषुः । अन्येषां माहात्म्यपतेः ।

“मुख्यतो विष्णुमाहात्म्यं मायाशब्दोदितं भवेत् । 
प्रधानत्वात् च मातृत्वात् मेयत्वात् चैव तस्य हि” इति च ।

तुष्टं निशाम्य पितरं लोकानां प्रपितामहम् ।
देवर्षिः परिपप्रच्छ भवान् यन्माऽनुपृच्छति ।। ४२ ।।

तस्मा इदं भागवतं पुराणं दशलक्षणम् ।
प्रोक्तं भगवता प्राह प्रीतः पुत्राय भूतकृत् ।। ४३ ।।

नारदः प्राह मुनये सरस्वत्यास्तटे नृप ।
ध्यायते ब्रह्म परमं व्यासायामिततेजसे ।। ४४ ।।

भागवततात्पर्यम् ।

“हरिर्व्यासादिरूपेण सर्वज्ञोऽपि स्वयं प्रभुः । 
शृणोति नारदादिभ्यो मोहायैषां प्रसिद्धये” इति पाद्मे ।

यदुताहं त्वया पृष्टो वैराजात् पुरुषादिदम् ।
यथाऽऽसीत् तदुपाख्यास्ये प्रश्नानन्यांश्च कृत्स्नशः ।। ४५ ।।

भागवततात्पर्यम् ।
“विराड् ब्रह्मा समुद्दिष्टस्तद्गतः परमो यतः । 
अतो वैराज इत्येनमाहुरीशत्वतो विराट्” इति बृहत्संहितायाम् ।

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितेन श्रीमद्भागवततात्पर्यनिर्णयेन संयुक्ते श्रीमत्कृष्णद्वैपायनकृते श्रीमद्भागवते द्वितीयस्कन्धे नवमोऽध्यायः ।

अथ दशमोऽध्यायः ।

श्रीशुक उवाच — 

अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः ।
मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ।। १ ।।

दशमस्य विशुद्ध्यर्थं नवानामिह लक्षणम् ।
वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा ।। २ ।।

भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः ।
ब्रह्मणो गुणवैषम्याद् विसर्गः पौरुषः स्मृतः ।। ३ ।।

भागवततात्पर्यम् ।

“महदाद्यण्डपर्यन्तः सर्गोऽण्डे ब्रह्मणस्तु यः ।
अनुसर्ग इति प्रोक्तः पौरुषश्चेति कथ्यते ।।

पञ्चभूतसमूहेन जातः पुरुष उच्यते । 
बहुत्वात् तत्र भूतानां तावत्त्वात् तत्त्वमेकजम्” इति व्योमसंहितायाम् । 

स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः ।
मन्वन्तराणि सद्धर्मा ऊतयः कर्मवासनाः ।। ४ ।।

अवतारानुचरितं हरेश्चास्यानुवर्तिनाम् ।
पुंसामीशकथा प्रोक्ता नानाख्यानोपबृंहिता ।। ५ ।।

निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः ।
मुक्तिर्हित्वाऽन्यथा रूपं स्वरूपेण व्यवस्थितिः ।। ६ ।।

भागवततात्पर्यम् ।

“अनुप्रविश्य परमं जीवस्य शयनं तु यत् । 
सहैव शक्तिभिः स्वीयैरिच्छाद्यैरप्रकाशितैः ।।
स निरोध इति प्रोक्तो विमुक्तिर्यत्र मोक्षिणाम्” इति नारदीये ।

आभासश्च निरोधश्च यतस्तद् यत्र मीयते ।
स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते ।। ७ ।।

भागवततात्पर्यम् ।

“सृष्टिस्थित्यप्ययाभासा यद्बलाद् यत्र च स्थिताः ।
तद् ब्रह्म जगदाधारं वासुदेवेति तं विदुः” इति भागवततन्त्रे ।

आध्यात्मिको यः पुरुषः सोऽसावेवाधिदैविकः ।
यस्तत्रोभयविच्छेदः स स्मृतो ह्याधिभौतिकः ।। ८ ।।

भागवततात्पर्यम् — आधिभौतिकेन रूपेण हि चक्षुःप्रकाशयोः सम्यक्त्वपरिज्ञानम् ।

एतदेकतमाभावे यदा नोपलभामहे ।
त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ।। ९ ।।

भागवततात्पर्यम् — सुप्त्यादावपि यः सर्वं वेत्ति जीवानां स परः । “स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति” इति हि श्रुतिः । सुष्ट्वाश्रयाणामप्याश्रयः ।


Play Time: 54:27

Size: 5.51 MB


Download Upanyasa Share to facebook View Comments
6616 Views

Comments

(You can only view comments here. If you want to write a comment please download the app.)
  • DESHPANDE P N,BANGALORE

    8:20 AM , 12/05/2019

    S.Namaskaragalu. Fantastic explanation of all ten we are blessed by SrimadBhagwata.Anugrahvirli