Upanyasa - VNU784

ಶ್ರೀಮದ್ ಭಾಗವತಮ್ — 211 — ವಿದುರರು ಕಲಿಸುವ ಪಾಠ

22/07/2019

ಇಡಿಯ ಜೀವನವನ್ನು ಹಸ್ತಿನಾವತಿಯ ಸಿಂಹಾಸನದ ಸೇವೆಯಲ್ಲಿ ಕಳೆದ ವಿದುರರಿಗೆ ದುರ್ಯೋಧನ ತೀವ್ರವಾದ ಅವಮಾನ ಮಾಡುತ್ತಾನೆ, ಧೃತರಾಷ್ಟ್ರ ಅದನ್ನು ತಡೆಯದೇ ಮತ್ತಷ್ಟು ಅವಮಾನ ಮಾಡುತ್ತಾನೆ. ಇಂತಹ ಪ್ರಸಂಗದಲ್ಲಿ ವಿದುರರು ನಡೆದುಕೊಂಡ ರೀತಿ ಪ್ರತಿಯೊಬ್ಬ ಸಾಧಕನ ಜೀವನಕ್ಕೆ ಮಾದರಿ. ಆ ವಿಷಯದ ವಿವರಣೆ ಇಲ್ಲಿದೆ. 

ಹಸ್ತಿನಾವತಿಯ ಮಹಾಮಂತ್ರಿಯಾಗಿ ಯುದ್ಧಕಾಲದಲ್ಲಿ ಇದ್ದು ತಮ್ಮ ಕರ್ತವ್ಯವನ್ನು ನಿಭಾಯಿಸಬೇಕಾಗಿದ್ದ ವಿದುರರು ತೀರ್ಥಯಾತ್ರೆಗೆ ಹೋದದ್ದು ತಪ್ಪಲ್ಲವೇ ಎಂಬ ಪ್ರಶ್ನೆಗೂ ಇಲ್ಲಿ ಉತ್ತರವಿದೆ. 

ಪೂಜ್ಯರು ಎಂಬ ಅರ್ಥದಲ್ಲಿ ಗುರುಗಳನ್ನು, ಋಷಿಗಳನ್ನು ಭಗವಾನ್ ಎಂಬ ಶಬ್ದದಿಂದ ಕರೆಯುವ ಪದ್ಧತಿ ಶಾಸ್ತ್ರದಲ್ಲಿದೆ. ಆದರೆ ಶ್ರೀಮದ್ ವಿಜಯಧ್ವಜತೀರ್ಥಶ್ರೀಪಾದಂಗಳವರು ತಿಳಿಸುದ ಅಪೂರ್ವವಾದ ಸಾಂಪ್ರದಾಯಿಕದ ಅರ್ಥದ ವಿವರಣೆ ಇಲ್ಲಿದೆ. 

ಅಪತ್ಯ ಎಂಬ ಶಬ್ದದ ಅರ್ಥ ಹಾಗೂ ಪ್ರೀತಿಗೂ ವ್ಯಾಮೋಹಕ್ಕೂ ಇರುವ ಸೂಕ್ಷ್ಮ ಅಂತರದ ವಿವರಣೆ ಇಲ್ಲಿದೆ. 

ಇಲ್ಲಿ ವಿವರಣೆಗೊಂಡ ಶ್ರೀಮದ್ ಭಾಗವತ ಮತ್ತು ಶ್ರೀಮದ್ ಭಾಗವತತಾತ್ಪರ್ಯನಿರ್ಣಯದ ಶ್ಲೋಕಗಳು — 

यदा तु पार्थप्रहितः सभायां जगद्गुरुर्यानि जगाद कृष्णः।
न तानि पुंसाममृतायनानि राजाऽनुमेने हतपुण्यलेशः  ॥९॥

श्रीमद्विजयध्वजीयम् — चतुर्थं हेतुमाह — यदा त्विति। पार्थेन युधिष्ठिरेण प्रहितः प्रेषितः। पुंसाममृतायनानि   मोक्षादिसकलपुरुषार्थसाधनानि। हतः पुण्यलेशो यस्य स तथा। “लिश अल्पीभवे” इति धातुः। अनेन पापं बहुलं पुण्यमल्पं तदपि नष्टमित्युक्तं भवति। इदमेव सुख-लेशविनाशकारणमित्यस्मिन्नर्थे तुशब्दः। गुरुमात्रस्यापि वाक्यं ग्राह्यं किमु जगद्गुरोरि-त्यभिप्रायेण तथोक्तम् ॥३-१-९॥ 

यदोपहूतो भवनं प्रविष्टो मन्त्राय पृष्टः किल पूर्वजेन। 
अथाऽह तं मन्त्रदृशां वरीयान् यन्मन्त्रिणो वैदुरिकं वदन्ति  ॥१०॥

श्रीमद्विजयध्वजीयम् — ततः किं विदुरस्य तीर्थयात्रायामित्यतो विशेषहेतुमाह — यदेति। पूर्वजेन ज्येष्ठेन यदोपहूतो भवनं प्रविष्टो विदुरो मन्त्राय स्वकर्तव्यतालोचनाय पृष्टः ‘किं कार्यं तद् ब्रवीहि’ इति’, अथ तदा मन्त्रदृशां मन्त्रज्ञानां वरीयान् तं धृतराष्ट्रमाह। मन्त्रदृग्वरीयस्त्वं कुत तत्राऽह — यदिति। वैदुरिकं विदुरेणोक्तम् यद् यस्मात् तस्मादिति शेषः। कृष्णे सन्धि-कार्यमनुत्पाद्योपप्लाव्यं गते सत्युपहूत इत्यस्मिन्नर्थे किल शब्दः ॥३-१-१०॥

अजातशत्रोः प्रतियच्छ दायं तितिक्षतो दुर्विषहं तवागः। 
सहानुजो यत्र वृकोदरो हि स्वशत्रुहा यं त्वमलं बिभेषि  ॥ ११ ॥

श्रीमद्विजयध्वजीयम् — किमाहेति तत्राऽह — अजातशत्रोरिति। प्रतियच्छ प्रदेहि। प्रदाने हेतुमाह — सहानुज इति। हिशब्दो हेत्वर्थः। यत्र यस्य युधिष्ठिरस्य अभिप्रेतसाधक इति शेषः। किमसौ यम इति तत्राऽह — यमिति। यं भीमं प्रति। अत्रापि हेतुमाह —  स्वशत्रुहेति। स्वस्य राज्यलक्षणद्रव्यस्य शत्रवो दुर्योधनादयः तान् हतवानिति। निश्चितत्वात् तथा प्रयोगः ॥११॥

यदा तु पार्थान् भगवान् मुकुन्दो गृहीतवान् स क्षितिदेवदेवः। 
आस्ते स्वपुर्यां यदुदेवदेवो विनिर्जिताशेषनृदेवदेवः  ॥१२॥

श्रीमद्विजयध्वजीयम् — राज्यप्रदाने बलवद् हेत्वन्तरं चाऽह — यदा त्विति। क्षितिदेवाः ब्राह्मणाः तेषां देवः पूज्यः। मुक्तिमपि ददाति किमु राज्यमित्यतो मुकुन्द इति। एवंविध-सामर्थ्यवान् पार्थान् गृहीतवानिति यदा तस्माच्च। सोऽपि न दूरस्थ इत्याह — आस्त इति। स्वेषां पाण्डवानां पुर्यामुपप्लाव्याख्यायामास्त इति यस्मात् तस्माच्च। साम्प्रतं सावसर इत्याह — विनिर्जितेति ॥१२॥

स एष दोषः पुरुषद्विडास्ते गृहं प्रविष्टो यमपत्यमत्या। 
पुष्णासि कृष्णाद् विमुखो गतश्रीस्त्यजाऽश्वथैनं कुलकौशलाय ॥१३॥


श्रीमद्विजयध्वजीयम् — पुत्रसंवादाभावाद् युधिष्ठिराय राज्यं न दत्तमिति धृतराष्ट्राभिप्रायं विद्वान् विदुरो विष्णुवैष्णवद्वेषिणः पुत्रस्यापि परित्यागः श्रेयानिति वक्ति — स एष इति। हे ज्येष्ठ त्वं यमपत्यमत्या, न पतति कुलं यस्मात् तदपत्यमिति बुद्ध्या पुष्णासि स एष गृहं प्रविष्टः आस्त इत्यन्वयः। कीदृशः? दोषः, पापात्मा। पुरुषं पूर्णषड्गुणं विष्णुं द्वेष्टीति पुरुषद्विड्। कुतः कृष्णाद् विमुखः। उपलक्षणमेतत्। तद्भक्तविमुखश्च। अत एव गतश्रीः श्रीप्रसादरहितः। यत एवंविधोऽथ तस्मात् कुलकौशलायाऽशु कालक्षेपमन्तरेणैनं दुर्योधनं त्यजेत्यन्वयः ॥१३॥

इत्यूचिवांस्तत्र सुयोधनेन प्रवृद्धकोपस्फुरिताधरेण। 
असत्कृतः सत्स्पृहणीयशीलः क्षत्ता सकर्णानुजसौबलेन ॥१४॥

श्रीमद्विजयध्वजीयम् — स्ववचनादिकं धृतराष्ट्रेण नाङ्गीकृतमित्येतावता विदुरस्य तीर्थयात्रा-करणविरागहेतुः कः प्राप्त इति तत्राऽह — इतीति। इतिशब्द आदिवचनः। एवमादिवाक्य-मुक्तवान्। प्रकारवचनो वा। स्फुरणं सञ्चलनम्। तत्र ज्येष्ठस्य पुरतः। असत्कृतो धिक्कृतः ॥१४॥

क एनमत्रोपजुहाव जिह्मं दास्याःसुतं यद्बलिनैव पुष्टः। 
तस्मिन् प्रतीपः परकृत्य आस्ते निर्वास्यतामाशु पुराच्छ्वसानः ॥१५॥

श्रीमद्विजयध्वजीयम् — धिक्कारप्रकारमाह — क एनमिति। दास्याः सुतमित्याक्रोशो षष्ठी। उपजुहाव आहूतवान्। जिह्मं वक्रहृदयम्। यस्य पुंसो बलिना अपवर्जितान्नेन। तस्मिन् पुंसि प्रतीपः विरोधी। परेषां मम विरोधिनां पाण्डवानां कृत्ये कार्ये आस्ते यस्मात् तस्मादिति शेषः। निर्वास्यतां निष्कास्यताम्। श्वसानः श्वासमात्रावशेषी। स्वकृतो दोषः स्वस्यैवेति सूचनाय शानच्-प्रयोगः ॥१५॥

स इत्थमत्युल्बणकर्णबाणैर्भ्रातुः पुरो मर्मसु ताडितोऽपि। 
स्मयन् धनुर्द्वारि निधाय मायां गतव्यथोऽयादुरु मानयानः ॥१६॥

श्रीमद्विजयध्वजीयम् — सम्भावितस्य ताडनात् प्रागेव निर्गमनं श्रेय इति भावं श्लोकद्वयेन सूचयन्नाह — स इति। भ्रातुः धृतराष्ट्रस्य स्मयन् मन्दस्मितं कुर्वन् मायां पुत्र इत्यादिस्नेहलक्षणां हरेर्बन्धकशिक्तिमुरु मानयानः बहुमन्वानः सोऽयाद् ययौ। तीर्थमिति शेषः ॥१६॥

Play Time: 55:51

Size: 5.51 MB


Download Upanyasa Share to facebook View Comments
6060 Views

Comments

(You can only view comments here. If you want to write a comment please download the app.)
  • DESHPANDE P N,BANGALORE

    9:48 AM , 25/07/2019

    S.Namaskargalu. After completion of SrimadBhagwata please start with Mahabharat more sweet to listen from you.
  • T venkatesh,Hyderabad

    9:11 AM , 24/07/2019

    ಇಲ್ಲಿ ವಿವರಿಸಲ್ಪಟ್ಟ ಧರ್ಮಗಳ ಆಚರಣೆ ಇಂದ ನಾವು 
    ಹತಭೂರಿಪಾಪರಾಗುವದು ನಿಶ್ಚಿತ.
  • Chandrika prasad,Bangalore

    1:17 PM , 23/07/2019

    ಪ್ರತಿ ದಿನ ವೂ ಉಪನ್ಯಾಸ  ಕೇಳುವುದಕ್ಕೆ  ಕಾಯುವಂತಾಗಿದೆ.ಆಚಾರ್ಯ ರಿಗೆ ನನ್ನ  ನ ಮನಗಳು.
  • Chandrika prasad,Bangalore

    1:13 PM , 23/07/2019

    Indina kalakke vidurarantaha mahanubhavaru  atee virala . Tumba chennagide nimma upanyasa.Ananta vandanegalu.