Upanyasa - VNU808

ಶ್ರೀಮದ್ ಭಾಗವತಮ್ — 227 — ಉದ್ಧವರ ಭಾಗ್ಯ

16/08/2019

ಪರಂಧಾಮ ಪ್ರವೇಶ ಮಾಡುವ ನಿಶ್ಚಯ ಮಾಡಿದ ಶ್ರೀಕೃಷ್ಣ ತಮ್ಮ ಮೇಲೆ ಮಾಡಿದ ಪರಮಾನುಗ್ರಹವನ್ನು ಉದ್ಧವರು ವಿದುರರ ಮುಂದೆ ದಿವ್ಯವಾದ ಕ್ರಮದಲ್ಲಿ ನೆನೆಸಿಕೊಳ್ಳುತ್ತಾರೆ. ಭಕ್ತರ ಮನಸ್ಸನ್ನು ಆರ್ದ್ರಗೊಳಿಸುವ ಭಾಗ. 

भगवानात्ममायाया गतिं तामवलोक्य सः। 
सरस्वतीमुपस्पृश्य वृक्षमूलमुपाविशत्  ॥३॥

भागवततात्पर्यम् — आत्ममायायाः आत्मसामर्थ्यस्य गतिं पूर्वमेवावलोक्य। 

“ज्ञात्वा कतिपयैर्वर्षेः पूर्वमेव जनार्दनः। 
मौसलं ज्ञानसन्तत्या उद्धवं बदरीं नयत्। 

स ज्ञानं तत्र विस्तीर्य पुनर्द्वारावतीं ययौ। 
पूर्वमेवोपदिष्टोऽपि हरिणा ज्ञानमुद्धवः। 

स्वर्गारोहणकाले तु पुनः पप्रच्छ केशवम्। 
पुनः श्रुत्वा बदर्यां तु वषत्रयमुवास ह। 
ज्ञानं संस्थाप्य पश्चात् च स्वेच्छया स्वर्गतः प्रभुः” इति गारुडे ॥

अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह। 
बदरीं त्वं प्रयाहीति स्वकुलं सञ्जिहीर्षुणा  ॥४॥

तथापि तदभिप्रेतं जानन्नहमरिन्दम। 
पृष्ठतोऽन्वगमं भर्तुः पादविश्लेषणाक्षमः ॥५॥

अद्राक्षमेकमासीनं विचिन्वन् दयितं पतिम्। 
श्रीनिकेतं सरस्वत्यां कृतकेतमकेतनम् ॥६॥

श्यामावदातं विरजं प्रशान्तारुणलोचनम्। 
दोर्भिश्चतुर्भिर्विदितं पीतकौशाम्बरेण च ॥७॥

वाम ऊरावधिश्रित्य दक्षिणाङ्घ्रिसरोरुहम्। 
अपाश्रितार्भकावस्थमकृशं त्यक्तपिप्पलम् ॥८॥

तस्मिन् महाभागवतो द्वैपायनसुहृत् सखा। 
लोकाननुचरन् सिद्ध आससाद यदृच्छया ॥९॥

तस्यानुरक्तस्य मुनेर्मुकुन्दः प्रमोदभारानतकन्धरस्य। 
आशृण्वतो मामनुरागहाससमीक्षया विश्रमयन्नुवाच ॥१०॥

श्रीभगवानुवाच — 

वेदाहमन्तर्मनसीप्सितं ते ददामि यत् तद् दुरवापमन्यैः। 
सत्रे पुरा विश्वसृजां मनूनां मत्सिद्धिकामेन वसो त्वयेष्टः ॥११॥

स एष साधो चरमो भवानामासादितस्ते मदनुग्रहो यत्। 
यन्मां नृलोकं रह उत्सृजन्तं दिष्ट्या ददृश्वान् विशदानुवृत्त्या  ॥१२॥

पुरा मया प्रोक्तमजाय नाभ्ये पद्मे निषण्णाय ममाऽदिसर्गे। 
ज्ञानं परं मन्महिमाऽवभासं यत् सूरयो भागवतं वदन्ति ॥१३॥

इत्यादारोक्तः परमस्य पुंसः प्रतीक्षणानुग्रहभाजनोऽहम्। 
स्नेहोत्थरोमा स्खलिताक्षरस्तं मुञ्चन् शुचः प्राञ्जलिराबभाषे ॥१४॥

को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह। 
तथापि नाहं प्रवृणोमि भूमन् भवत्पदाम्भोजनिषेवणोत्सुकः ॥१५॥

कर्माण्यनीहस्य भवोऽभवस्य ते दुर्गाश्रयोऽथारिभयात् पलायनम्। 
कालात्मनो यत् प्रमदायुताश्रयः स्वात्मन् रतेः खिद्यति धीर्विदामिह ॥१६॥

मन्त्रेषु मां वा उपहूय यत् त्वमकुण्ठिताखण्डसदात्मबोधः। 
पृच्छेः प्रभो मुग्ध इवाप्रमत्तस्तन्नो मनो मोहयतीव देव  ॥१७॥

ज्ञानं परं स्वात्मरहःप्रकाशं प्रोवाच कस्मै भगवान् समग्रम्। 
अपि क्षमं नो ग्रहणाय भर्तर्वेदाञ्जसा यद् वृजिनं तरेम ॥१८॥

इत्यावेदितहार्दाय मह्यं स भगवान् परः। 
आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम् ॥१९॥

स एवमाराधितपादतीर्थादधीततत्त्वात्मविबोधमार्गः। 
प्रणम्य पादौ परिवृत्य देवमिहागतोऽहं विरहातुरात्मा  ॥२०॥

सोऽहं त्वद्दर्शनाह्लादवियोगार्तियुतः प्रभोः। 
गमिष्ये दयितं तस्य बदर्याश्रममण्डलम् ॥२१॥

यत्र नारायणो देवो नरश्च भगवान् ऋषिः। 
मृदु तीव्रं तपो दीर्घं तेपाते लोकभावनौ ॥२२॥

इत्युद्धवादुपाकर्ण्य सुहृदां दुःसहं वधम्। 
ज्ञानेनाशमयत् क्षत्ता शोकमुत्पतितं बुधः ॥२३॥

स तं महाभागवतं व्रजन्तं कौरवर्षभः। 
विश्रम्भादभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे ॥२४॥

विदुर उवाच — 

ज्ञानं परं स्वात्मरहःप्रकाशं यदाह योगेश्वर ईश्वरस्ते। 
वक्तुं भवान् नोऽर्हति यद्धि विष्णोर्भृत्याः स्वभृत्यार्थकृतश्चरन्ति ॥२५॥

उद्धव उवाच — 

ननु ते तत्त्वसंराद्ध ऋषिः कौषारवोऽन्ति मे। 
साक्षाद् भगवताऽऽदिष्टो मर्त्यलोकं जिहासता ॥२६॥

श्रीशुक उवाच —

इति सह विदुरेण विश्वमूर्तेर्गुणकथया सुधया प्लावितोरुतापः। 
क्षणमिव पुलिने यमस्वसुस्तां समुषित औपगविर्निशां ततोऽगात्॥२७॥

राजोवाच —
निधनमुपगतेषु वृष्णिभोजेष्वधिरथयूथपयूथपेषु मुख्यः। 
स तु कथमवशिष्ट उद्धवो यद्धरिरपि तत्यज आकृतिं त्र्यधीशः॥२८॥

भागवततात्पर्यम् — आकृतिं पृथिवीम् — 

“शरीरमाकृतिर्दैहः कुः पृथ्वी च मही तथा” इति ह्यभिधाने।

“पृथिवीलोकसन्त्यागो देहत्यागो हरेः स्मृतः। 
नित्यानन्दस्वरूपत्वादन्यन्नैवोपपद्यते। 

दर्शयेत् जनमोहाय सदृशीं मृतकाकृतिम्। 
नटवद् भगवान् विष्णुः परज्ञानात्मको विभुः” इति स्कान्दे। 

“राजन् परस्य तनुभृजननाप्ययेहां मायाविडम्बनमवैहि यथा नटस्य” इति च ॥

श्रीशुक उवाच —

ब्रह्मशापापदेशेन कालेनामोघवाञ्छितः। 
संहृत्य स्वकुलं नूनं त्यक्ष्यन् देहमचिन्तयत् ॥२९॥

अस्माल्लोकादुपरते मयि ज्ञानं मदाश्रयम्। 
अर्हत्युद्धव एवाद्धा सम्प्रत्यात्मवतां वरः ॥३०॥

नोद्धवोऽण्वपि मन्य्यूनः यद्गुणैनिर्जितः प्रभुः। 
अतो मद्वत् पुनर्लोकं ग्राहयन्निह तिष्ठतु ॥३१॥

भागवततात्पर्यम्।
“उत्तमैरधिकत्वं वा साम्यं वा विजयोऽपि वा।
उच्यतेऽपितु नीचानां मोहनार्थं व्यपेक्षया। 
मूढदृष्टयनुसाराद् वा किञ्चित् साम्येन वा क्वचित्” इति ब्रह्मतर्के ॥

एवं त्रिलोकगुरुणा सन्दिष्टः शब्दयोनिना। 
बदर्याश्रममासाद्य हरिमीजे समाधिना ॥ ३२ ॥

विदुरोऽप्युद्धवाच्छ्रुत्वा कृष्णस्य परमात्मनः। 
क्रीडयोपात्तदेहस्य कर्माणि श्लाघितानि च ॥३३॥

देहन्यासं च तस्यैवं धीराणां धैर्यवान् धनम्।  
अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम् ॥३४॥

आत्मानं च कुरुश्रेष्ठ कृष्णेन मनसेक्षितम्। 
ध्यायन् गते भागवते रुरोद प्रेमविह्वलः  ॥३५॥

कालिन्द्याः कतिभिः सिद्ध अहोभिर्भरतर्षभ। 
प्रापद्यत स्वःसरितं यत्र मित्रासुतो मुनिः ॥३६॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितेन श्रीमद्भागवततात्पर्यनिर्णयेन संयुक्ते श्रीमत्कृष्णद्वैपायनकृते श्रीमद्भागवते तृतीयस्कन्धे चतुर्थोऽध्यायः।

Play Time: 61:05

Size: 5.51 MB


Download Upanyasa Share to facebook View Comments
6202 Views

Comments

(You can only view comments here. If you want to write a comment please download the app.)
  • Jasyashree Karunakar,Bangalore

    7:47 PM , 22/08/2019

    ಶ್ರೀಮದ್ಭಾಗವತದ ಮೂಲಕ,
    ಜ್ಞಾನದ ದೌಬ೯ಲ್ಯವನ್ನು ಮನಗಾಣಿಸುತ್ತಾ , ನಾವೆಷ್ಟು ಯೋಗ್ಯರೊ ಅಷ್ಟನ್ನು ಮೖತ್ರೇಯರ ಮೂಲಕ ತತ್ವಜ್ಞಾನವನ್ನು ನೀಡಿದ ಜಗದೊಡೆಯನ ಕಾರುಣ್ಯವನ್ನು , ಮಹಾನುಭಾವರ ವ್ಯಾಖ್ಯಾನಗಳಿಂದ  ಹೀರಿ, ನಮಗೆ ಪಾನ ಮಾಡಿಸುವ ಗುರುಗಳ ಚರಣಗಳಿಗೆ ನಮನ....
    
    ನಿತ್ಯವೂ ಒಂದಿದ್ದರೆ ಇನ್ನೊಂದಿಲ್ಲ ಅನ್ನುವ ಅತೃುಪ್ತಿಯ ಮಧ್ಯ ಬದುಕುವ ನಮ್ಮ ಬದುಕಿನ ಸನ್ನಿವೇಶಗಳೆಲ್ಲಿ...?
    
    ಲೋಕ ಸಂಚಾರ ಮಾಡುತ್ತಾ ಯಾದೃಚ್ಛಿಕವಾಗಿ ಬಂದ, ಮೖತ್ರೇಯರಿಗಾಗಿಯೇ ಅಶ್ವತ್ಥ ವೃಕ್ಷದ ಬುಡದಲ್ಲಿ ಭಗವಂತ ಕಾದು ಕುಳಿತಿರುವ,... ಆ ಸರಸ್ವತೀರದ ಪವಿತ್ರವಾದ ಸನ್ನಿಧಾನವೆಲ್ಲಿ....?
    
    ಭಗವಂತ ಉದ್ಧವರನ್ನು ಮಾತನಾಡಿಸುವ ಕ್ಷಣಗಳು....
    ಆಗ ಉದ್ಧವರು ಮಾತುಬಾರದೇ ತೊದಲುವ ಕ್ಷಣಗಳು....
    ಕಣ್ಣೀರುವ ಹರಿಯುವ ರೀತಿ...
    ಅವರೆಲ್ಲ ಇಂದ್ರೀಯಗಳೂ ಭಗವನ್ಮುಖವಾಗುವ ರೀತಿ...
    
    ಭಾಗವತದಲ್ಲಿ ನಿರಂತರವಾಗಿ ಬರುವ ಇಂತಹ ರಸಘಳಿಗೆಗಳನ್ನು ಆಸ್ವಾಧಿಸಲು ನಮಗಿರುವ ಇಂದ್ರೀಯಗಳೇ ಸಾಲದಾಗಿದೆ ಗುರುಗಳೇ....
    
    ನಮ್ಮ ಮನಸ್ಸಿನ ಜೊತೆಗೆ ಬುದ್ಧಿಯೂ ಕರಗುತಿದೆ...