Upanyasa - VNu731

ಶ್ರೀಮದ್ ಭಾಗವತಮ್ — 179 — ಆಚಾರ್ಯರ ಅದ್ಭುತ ತತ್ವನಿಷ್ಠೆ

09/12/2018

ವಿರಾಡ್ರೂಪದ ಯಾವ ಅವಯವಗಳಿಂದ ಯಾವೆಲ್ಲ ತತ್ವಗಳು ಸೃಷ್ಟಿಯಾದವು ಎಂದು ತಿಳಿಸುವ ಸಂದರ್ಭದಲ್ಲಿ ಶ್ರೀಮದಾಚಾರ್ಯರು ವ್ಯಾಖ್ಯಾನ ಮಾಡುವ ರೀತಿ ತತ್ವದ ಮಾರ್ಗದಲ್ಲಿ ನಡೆಯುವ ಜನರಿಗೆ ಬಹಳ ದೊಡ್ಡ ಪಾಠಗಳನ್ನು ಕಲಿಸುತ್ತದೆ. ಆ ಕುರಿತ ಚಿಂತನೆ ಇಲ್ಲಿದೆ. 

ಇಲ್ಲಿ ವಿವರಣೆಗೊಂಡ ಭಾಗವತ ಮತ್ತು ಭಾಗವತತಾತ್ಪರ್ಯದ ವಚನಗಳು

ಎರಡನೆಯ ಸ್ಕಂಧ, ಆರನೆಯ ಅಧ್ಯಾಯ

बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम् ।

विक्रमो भूर्भुवः स्वश्च क्षेमस्य शरणस्य च 
 
सर्वकामवरस्यापि हरेश्चरण आस्पदम्  ।। ६ ।।

भागवततात्पर्यम् — 

ब्राह्मणवैश्यादीन् वर्जयितुं प्रायश इति । 

“मोक्षः शान्तिश्च शरणं निर्वाणं चाभिधीयते” इति ब्राह्मे । 

“भेजे खगेन्द्रध्वजपादमूलम्” इति च।

“स्वोत्पत्त्यङ्गेषु देवानामन्येषां पादमूलतः। 

मुक्तिस्तु विहिता विष्णोर्निदिष्टेषु यथावचः” इत्यध्यात्मे ।

अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः । 

पुंसः शिश्न उपस्थस्तु प्रजात्यानन्दनिर्वृतेः  ।। ७ ।।

पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद ।

हिंसाया निरृतेर्मृत्योर्निरयस्य गुदः स्मृतः  ।। ८ ।।

पराभूतेरधर्मस्य तमसश्चापि पश्चिमः ।

नाड्यो नदनदीनां तु गोत्राणामस्थिसंहतिः  ।। ९ ।।

अव्यक्तरससिन्धूनां भूतानां निधनस्य च ।

उदरं विदितं पुंसो हृदयं मनसः पदम्  ।। १० ।।

धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च ।

विज्ञानस्य च तत्वस्य परस्याऽत्मा परायणम्  ।। ११ ।। 

भागवततात्पर्यम् ।

“कुमारब्रह्मरुद्राद्या हरेर्मध्यात् समुद्गताः”इति वामने ।

“आत्मेति मध्यदेहश्च सर्वदेहोऽपि वा भवेत् । 

मनोबुद्धिरहङ्कारश्चित्तं जीवश्च कथ्यते ।।

अथवा स्वयमेवेति वायुर्ब्रह्माऽपि वा भवेत् । 

मुख्यतो ब्रह्म परमात्मशब्देन भण्यते” इति नाममहोदधौ ।

“देहेन्द्रियादिभेदेन निर्भेदोऽपि हरिः स्वयम् । 

भण्यते केwवलैश्वर्यादनाद्यानन्दचिद्घनः” इति गारुडे ।


Play Time: 35:32

Size: 5.54 MB


Download Upanyasa Share to facebook View Comments
5605 Views

Comments

(You can only view comments here. If you want to write a comment please download the app.)
  • prema raghavendra,coimbatore

    7:00 PM , 22/12/2018

    Anantha Namaskara! Danyavada!
  • Vishwanandini User,Davanagere

    2:10 PM , 12/12/2018

    ಧನ್ಯೋಸ್ಮಿ ಗುರುಗಳೇ 🙏
  • Vishwanandini User,Bangalore

    1:01 PM , 12/12/2018

    Gurudev.... 
    
    This part of the upanyasa
     
    You have derived like a mathematical equations step wise...