02/12/2017
ಶ್ರೀಮದ್ ಭಾಗವತದ ಮೊದಲನೆಯ ಸ್ಕಂಧದ ಎರಡನೆಯ ಅಧ್ಯಾಯದ ಪಾರಾಯಣ. अथ श्रीमद्भागवते द्वितीयोध्यायः इति सम्प्रश्नसम्पृष्टो विप्राणां रौमहर्षणिः । प्रतिपूज्य वचस्तेषां प्रवक्तुमुपचक्रमे ॥ १ ॥ सूत उवाच — यं प्रव्रजन्तमनुपेतमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव। पुत्रेति तन्मयतया तरवोऽपि नेदुस्तं सर्वभूतहृदयं मुनिमानतोऽस्मि ॥ २ ॥ यः स्वानुभावमखिलश्रुतिसारमेकमध्यात्मदीपमतितितीर्षतां तमोऽन्धम् । संसारिणां करुणयाह पुराणगुह्यं तं व्याससूनुमुपयामि गुरुं मुनीनाम् ॥ ३ ॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो ग्रन्थमुदीरये ॥ ४ ॥ मुनयः साधु पृष्टोऽहं भवद्भिर्लोकमङ्गलम् । यत्कृतः कृष्णसम्प्रश्नो येनात्माऽशु प्रसीदति ॥ ५ ॥ स वै पुंसां परो धर्मो यतो भक्तिरधोक्षजे । अहैतुक्यव्यव्यहिता ययाऽत्माऽशु प्रसीदति ॥ ६ ॥ वासुदेवे भगवति भक्तियोगः प्रयोजितः । जनयत्याशु वैराग्यं ज्ञानं च यदहैतुकम् ॥ ७ ॥ धर्मः स्वनुष्ठितः पुंसां विष्वक्सेनकथाश्रयाम्। नोत्पादयेद् यदि रतिं श्रम एव हि केवलम् ॥ ८ ॥ धर्मस्य ह्यापवर्ग्यस्य नार्थोऽर्थायेह कल्पते । नार्थस्य धर्मैकान्तस्य कामो लाभाय हि स्मृतः ॥ ९ ॥ कामस्य नेन्द्रियप्रीतिर्लाभो जीवति यावता । जीवस्यातत्त्वजिज्ञासोर्नार्थो यश्चेह कर्मभिः ॥ १० ॥ वदन्ति तत्तत्त्वविदस्तत्त्वं यज्ज्ञानमद्वयम् । ब्रह्मेति परमात्मेति भगवानिति शब्द्यते ॥ ११ ॥ सत्तामात्रं तु यत्किञ्चित् सदसच्चाविशेषणम्। उभाभ्यां भाष्यते साक्षाद् भगवान् केवलः स्मृतः ॥ १२ ॥ तच्छ्रद्दधाना मुनयो ज्ञानवैराग्ययुक्तया । पश्यन्त्यात्मनि चाऽत्मानं भक्त्या श्रुतिगृहीतया ॥ १३ ॥ अतः पुम्भिर्द्विजश्रेष्ठा वर्णाश्रमविभागशः । स्वनुष्ठितस्य धर्मस्य संसिद्धिर्हरितोषणम् ॥ १४ ॥ तस्मादेकेन मनसा भगवान् सात्वतां पतिः । श्रोतव्यः कीर्तितव्यश्च ध्येयः पूज्यश्च नित्यदा ॥ १५ ॥ यदनुध्यायिनो युक्ताः कर्मग्रन्थिनिबन्धनम् । छिन्दन्ति कोविदास्तस्य को न कुर्यात् कथारतिम् ॥ १६ ॥ शुश्रूषोः श्रद्दधानस्य वासुदेवकथारतिः। । स्यान्महत्सेवया विप्राः पुण्यतीर्थनिषेवणात् ॥ १७ ॥ शृण्वतां स्वकथां कृष्णः पुण्यश्रवणकीर्तनः । हृद्यन्तःस्थो ह्यभद्राणि विधुनोति सुहृत् सताम् ॥ १८ ॥ नष्टप्रायेष्वभद्रेषु नित्यं भागवतसेवया । भगवत्युत्तमश्लोके भक्तिर्भवति नैष्ठिकी ॥ १९ ॥ तदा रजस्तमोभावाः कामलोभादयश्च ये । चेत एतैरनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ २० ॥ एवं प्रसन्नमनसो भगवद्भक्तियोगतः । भगवत्तत्त्वविज्ञानं मुक्तसङ्गस्य जायते ॥ २१ ॥ भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि दृष्ट एवाऽत्मनीश्वरे ॥ २२ ॥ अतो वै कवयो नित्यं भक्तिं परमया मुदा वासुदेवे भगवति कुर्वन्त्यात्मप्रसादनीम् ॥ २३ ॥ सत्त्वं रजस्तम इति प्रकृतेर्गुणास्तैर्युक्तः परः पुरुष एक इहास्य धत्ते । स्थित्यादये हरिविरिञ्चहरेति सञ्ज्ञाः श्रेयांसि तत्र खलु सत्त्वतनौ नृणां स्युः ॥ २४ ॥ पार्थिवाद् दारुणो धूमस्तस्मादग्निस्त्रयीमयः तमसस्तु रजस्तस्मात् सत्त्वं यद् ब्रह्मदर्शनम् ॥ २५ ॥ भेजिरे मुनयोऽथाग्रे भगवन्तमधोक्षजम् सत्त्वं विशुद्धं क्षेमाय कल्पते नेतराविह ॥ २६ ॥ मुमुक्षवो घोररूपान् हित्वा भूतपतीनथ । नारायणकलाः शान्ता भजन्ति ह्यनसूयवः ॥ २७ ॥ रजस्तमःप्रकृतयः समशीलान् भजन्ति वै पितृभूतप्रजेशादीन् श्रियैश्वर्यप्रजेप्सवः ॥ २८ ॥ वासुदेवपरा वेदा वासुदेवपरा मखाः वासुदेवपरा योगा वासुदेवपराः क्रियाः ॥ २९ ॥ वासुदेवपरं ज्ञानं वासुदेवपरं तपः वासुदेवपरो धर्मो वासुदेवपरा गतिः ॥ ३० ॥ स एवेदं ससर्जाग्रे भगवानात्ममायया सदसद्रूपया चासौ गुणमय्याऽगुणो विभुः ॥ ३१ ॥ तया विलसितेष्वेषु गुणेषु गुणवानिव अन्तःप्रविष्ट आभाति विज्ञानेन विजृम्भितः ॥ ३२ ॥ यथा व्यवहितो वह्निर्दारुष्वेकः स्वयोनिषु नानेव भाति विश्वात्मा भूतेषु च तथा पुमान् ॥ ३३ ॥ असौ गुणमयैर्भावैर्भूतसूक्ष्मेन्द्रियादिभिः स्वनिर्मितेषु निर्विष्टो भुङ्क्ते भूतेषु तद्गुणान् ॥ ३४॥ भावयन्नेष सत्त्वेन लोकान् वै लोकभावनः लीलावतारानुरतो देवतिर्यङ्नरादिषु ॥ ३५ ॥ इति श्रीमत्कृष्णद्वैपायनकृते श्रीमद्भागवते प्रथमस्कन्धे द्वितीयोऽध्यायः।
Play Time: 05:58
Size: 5.54 MB