08/02/2018
ಶ್ರೀಕೃಷ್ಣ ಪರಂಧಾಮನವನ್ನು ಪ್ರವೇಶ ಮಾಡುವ ಮುನ್ನ ದಾರುಕನನ್ನು ಹಸ್ತಿನಾವತಿಗೆ ಕಳುಹಿಸುತ್ತಾನೆ, ಅರ್ಜುನ ಬರಬೇಕೆಂದು ತಿಳಿಸಿರುತ್ತಾನೆ. ವೇಗದಿಂದ ಅರ್ಜುನ ಅಲ್ಲಿಗೆ ಹೊರಟ ತಕ್ಷಣ ಧರ್ಮರಾಜನಿಗೆ ಹತ್ತಾರು ರೀತಿಯ ಅಪಶಕುನಗಳು ಕಾಣಲು ಆರಂಭಿಸುತ್ತವೆ. ಅವುಗಳ ಕುರಿತ ವಿವರಣೆ ಇಲ್ಲಿದೆ. ಇಲ್ಲಿ ವಿವರಣೆಗೊಂಡ ಭಾಗವತ ಮತ್ತು ಭಾಗವತತಾತ್ಪರ್ಯದ ವಚನಗಳು — अथ त्रयोदशोऽध्यायः सूत उवाच — सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया। ज्ञातुं च मायामनुष्यस्य वासुदेवस्य विचेष्टितम् ।। १ ।। व्यतीताः कतिचिन्मासास्तदा नाsयात् ततोऽर्जुनः। ददर्श घोररूपाणि निमित्तानि भृगूद्वह ।। २ ।। भागवततात्पर्यम् — मासशब्देनाहान्युच्यन्ते। तथाहि महाभारते। “अहस्तु मासशब्दोक्त यत्र चिन्तायुतं व्रजेत् । एवं संवत्सराद्यं च विपरीते विपर्ययः” इति नाममहोदधौ ।। २ ।। कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिणः। पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम् ।। ३ ।। जिह्मप्रायं व्यवहृतं साध्यमिश्रं च सौहृदम्। पितृमातृसुहृद्भ्रातृदम्पतीनां च कल्किताम् ।। ४ ।। निमित्तान्यप्यरिष्टानि काले त्वनुगते नृणाम्। लोभाद्यधर्मप्रकृतिं दृष्ट्वोवाचानुजं नृपः ।। ५ ।। युधिष्ठिर उवाच — सम्प्रेषिते द्वारकायां जिष्णौ बन्धुदिदृक्षया। ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ।। ६ ।। गताः सप्ताधुना मासा भीमसेन तवानुजः। नाऽयाति कस्य वा हेतोर्नाहं वेदेदमञ्जसा ।। ७ ।। अपि देवर्षिणाsदिष्टः स कालोऽयमुपस्थितः। यदात्मनोऽङ्गमाक्रीडं भगवानुत्सिसृक्षति ।। ८ ।। भागवततात्पर्यम् — अङ्गं पृथिवीम् । “यदा त्यागादिरुच्येत पृथिव्याद्याङ्गकल्पना । तदा ज्ञेया न हि स्वाङ्गं कदाचिद् विष्णुरुत्सृजेत्” इति ब्रह्मतर्के । येषां नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः। आसन् सपत्नविजयो लोकाश्च यदनुग्रहात् ।। ९ ।। पश्योत्पातान् नरव्याघ्र भौमान् दिव्यान् सदैहिकान्। दारुणान् शंसतोऽदूराद् भयं नो बुद्धिमोहनम् ।। १० ।। ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुनःपुनः। वेपथुश्चापि हृदये आराद् दास्यन्ति विप्रियम् ।। ११ ।। शिवैषोद्यन्तमादित्यमभिरौत्यनलानना। मामङ्ग सारमेयोऽयमभिधावत्यभीतवत् ।। १२ ।। शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे। वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम ।। १३ ।। मृत्युदूतः कपोतोऽग्नावुलूकः क्षपयन् मनः। प्रत्युलूकश्च हुङ्कारैर्विनिद्रौ शून्यमिच्छतः ।। १४ ।। भागवततात्पर्यम् — अग्नौ पदं करोति । “यदुलूको वदति मोघमेतद् यत् कपोतः पदमग्नौ कृणोति” इति हि श्रुतिः। धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः। निर्घातश्च महांस्तात साकं च स्तनयित्नुभिः ।। १५ ।। वायुर्वाति खरस्पर्शो रजसा विसृजंस्तमः। असृग् वर्षन्ति जलदा बीभत्समिव सर्वतः ।। १६ ।। सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि। ससङ्कुले तु भगणे ज्वलिते इव रोदसी ।। १७ ।। नद्यो नदाश्च क्षुभिताः सरांसि च मनांसि च। न ज्वलत्यग्निराज्येन कालोऽयं किं विधास्यति ।। १८ ।। न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरः। रुदन्त्यश्रुमुखा गावो न हृष्यन्त्यृषभा व्रजे। दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च ।। १९ ।। इमे जनपदा ग्रामाः पुरोद्यानाकराश्रमाः। भ्रष्टश्रियो निरानन्दाः किमघं दर्शयन्ति नः ।। २० ।। मन्य एतैर्महोत्पातैर्नूनं भगवतः पदैः। अनन्यपुरुषस्त्रीभिर्हीना भूर्हतसौभगा ।। २१ ।। इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा। राज्ञः प्रत्यागमद् ब्रह्मन् यदुपुर्याः कपिध्वजः ।। २२ ।।
Play Time: 51:15
Size: 7.60 MB