09/02/2018
ಶ್ರೀಕೃಷ್ಣ ಪರಂಧಾಮಪ್ರವೇಶ ಮಾಡಿದ ಬಳಿಕ ಅರ್ಜುನ ಅನುಭವಿಸಿದ ದುಃಖವನ್ನು ಮನಕಲಕುವಂತೆ ವೇದವ್ಯಾಸದೇವರು ಚಿತ್ರಿಸಿದ್ದಾರೆ. ಈ ಘಟನೆಯ ಆಧ್ಯಾತ್ಮಿಕ ಅರ್ಥದ ವಿಶ್ಲೇಷಣೆಯೊಂದಿಗೆ ಇಲ್ಲಿ ಅದರ ವಿವರಣೆಯಿದೆ. ಇಲ್ಲಿ ವಿವರಣೆಗೊಂಡ ಭಾಗವತ ಮತ್ತು ಭಾಗವತತಾತ್ಪರ್ಯದ ವಚನಗಳು — इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा। राज्ञः प्रत्यागमद् ब्रह्मन् यदुपुर्याः कपिध्वजः ।। २२ ।। तं पादयोर्निपतितमयथापूर्वमातुरम्। अधोवदनमब्बिन्दून् मुञ्चन्तं नयनाब्जयोः ।। २३ ।। विलोक्योद्विग्नहृदयो विच्छायमनुजं नृपः। पृच्छति स्म सुहृन्मध्ये संस्मरन् नारदेरितम् ।। २४ ।। युधिष्ठिर उवाच — कच्चिदानर्तपुर्यां नः स्वजनाः सुखमासते। मधुभोजदशार्हार्हसात्वतान्धकवृष्णयः ।। २५ ।। शूरो मातामहः कच्चित् स्वस्त्यास्ते वाऽथ मारिषः। मातुलः सानुजः कच्चित् कुशल्यानकदुन्दुभिः ।। २६ ।। सप्त स्वसारस्तत्पत्न्यो मातुलान्यः सहात्मजाः। आसते सस्नुषाः क्षेमं देवकीप्रमुखाः स्त्रियः ।। २७ ।। कच्चिद् राजाहुको जीवत्यसत्पुत्रोऽस्य चानुजः। हृदीकः ससुतोऽक्रूरो जयन्तगदसारणाः ।। २८ ।। आसते कुशलं कच्चिद् ये च शत्रुजिदादयः। कच्चिदास्ते सुखं रामो भगवान् सात्वतां प्रभुः ।। २९ ।। प्रद्युम्नः सर्ववृष्णीनां सुखमास्ते महारथः। गम्भीररयोऽनिरुद्धो वर्तते भगवानुत ।। ३० ।। सुषेणश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः। अन्ये च कार्ष्णिप्रवराः सपुत्रा ऋषभादयः ।। ३१ ।। तथैवानुचराः शौरेः श्रुतसेनोद्धवादयः। सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभाः ।। ३२ ।। अपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रयाः। अपि स्मरन्ति कुशलमस्माकं बद्धसौहृदाः ।। ३३ ।। भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः। कच्चित् पुरे सुधर्मायां सुखमास्ते सुहृद्वृतः ।। ३४ ।। भागवततात्पर्यम् — यथान्येषां सुखं भविष्यति तथा । नित्यसुखत्वाद् हरेः । “अत्युत्तमानां कुशलप्रश्नो लोकसुखेक्षया । नित्यदाप्तसुखत्वात् तु न तेषां युज्यते क्वचित्” इति नारदीये । मङ्गलाय च लोकानां क्षेमाय च भवाय च। आस्ते यदुकुलाम्भोधावाद्योऽनन्तसखः पुमान् ।। ३५ ।। यद्बाहुदण्डगुप्तायां स्वपुर्यां यदवोऽर्चिताः। क्रीडन्ति परमानन्दं महापौरुषिका इव ।। ३६ ।। यत्पादशुश्रूषणमुख्यकर्मणा सत्यादयो द्व्यष्टसहस्रयोषितः। निर्जित्य सङ्ख्ये त्रिदशांस्तदाशिषो हरन्ति वज्रायुधवल्लभोचिताः ।। ३७ ।। यद्बाहुदण्डाभ्युदयानुजीविनो यदुप्रवीरा ह्यकुतोभया मुहुः। अधिक्रमन्त्यङ्घ्रिभिराहृतां बलात् सभां सुधर्मां सुरसत्तमोचिताम् ।। ३८ ।। कच्चित् तेऽनामयं तात भ्रष्टतेजा विभासि मे। अलब्धमानोऽवज्ञातः किं वा तात चिरोषितः ।। ३९ ।। भागवततात्पर्यम् — पूर्वं चिरोषितः । यादवेन्द्रतीर्थीयम् — पूर्वं चिरमुषितो द्वारवत्यां स्थितो यतः, अतः अवज्ञातः किम् ? अतिपरिचयस्यावज्ञाकारणत्वात्। कच्चिन्नाभिहतो भावैः शब्दादिभिरमङ्गलैः। न दत्तं युक्तमर्थिभ्य आशया यत्प्रतिश्रुतम् ।। ४० ।। कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम्। शरण्योपसृतं सत्त्वं नात्याक्षीः शरणप्रदः ।। ४१ ।। कच्चित्त्वं नागमोऽगम्यां गम्यां वासत्कृतां स्त्रियम्। पराजितो वाथ भवान्नोत्तमैर्नासमैः पथि ।। ४२ ।। अपि स्वित् पर्यभुङ्क्थास्त्वं सम्भोज्यान् वृद्धबालकान्। जुगुप्सितं कर्म किञ्चित्कृतवान्न यदक्षमम् ।। ४३ ।। कच्चित् प्रेष्ठतमेनाथ हृदयेनाsत्मबन्धुना। शून्योऽस्मि रहितो नित्यं मन्यसे तेऽन्यथा न रुक् ।। ४४ ।। अथ चतुर्दशोsध्यायः सूत उवाच — एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञा विकल्पितः। नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शितः ।। १ ।। शोकाग्निशुष्यद्वदनहृत्सरोजं हतप्रभम्। विभुं तमेवानुस्मरन् नाशक्नोत् प्रतिभाषितुम् ।। २ ।। कृच्छ्रेण संस्तभ्य शुचः पाणिनाsमृज्य नेत्रयोः। पारोक्षेण समुन्नद्धप्रणयौत्कण्ठ्यकातरः ।। ३ ।। सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन्। नृपमग्रजमित्याह बाष्पगद्गदया गिरा ।। ४ ।। अर्जुन उवाच — वञ्चितोऽहं महाराज हरिणा बन्धुरूपिणा। येन मेऽपहृतं तेजो देवविस्मापनं महत् ।। ५ ।। यस्य क्षणवियोगेन लोको ह्यप्रियदर्शनः। उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा ।। ६ ।। यत्संश्रयाद् द्रुपदगेह उपागतानां राज्ञां स्वयंवरमुखे स्मरदुर्मदानाम्। तेजो हृतं खलु मया विहतश्च मत्स्यः सज्जीकृतेन धनुषाऽधिगता च कृष्णा ।। ७ ।। यत्सन्निधावहमु खाण्डवमग्नयेऽदा- मिन्द्रं च सामरगणं तरसा विजित्य। लब्धा सभा मयकृताद्भुतशिल्पमाया दिग्भ्योऽहरन् नृपतयो बलिमध्वरे ते ।। ८ ।। यत्तेजसा नृपशिरोऽङ्घ्रिमहन्मखार्थ आर्योऽनुजस्तव गदायुधसत्त्ववीर्यः। तेनाsहृताः प्रमथनाथमखाय भूपा यन्मोचिताभ्युदनयन् बलिमध्वरे ते ।। ९ ।। पत्न्यास्तवापि मखक्लृप्तमहाभिषेक- श्लाघिष्ठचारु कबरं कितवैः सभायाम्। स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्यो यैस्तत्स्त्रियो न्यकृत तत् स विमुक्तकेशाः ।। १० ।। भागवततात्पर्यम् — यत्पादयोः पतितायाः अश्रुप्रधानः। यैः कबरं स्पृष्टं तत्स्त्रियः। तत्पदयोः पतितत्वादेव स विमुक्तकेश्यो न्यकृत । यत्तेजसाsथ भगवान् युधि शूलपाणि- र्विस्मापितः स गिरिशोऽस्त्रमदान्निजं मे। अन्येऽपि चाहममुनैव कलेवरेण प्राप्तो महेन्द्रभवने महदासनार्धम् ।। ११ ।। तत्रैव मे विहरतो भुजदण्डयुग्मं गाण्डीवलक्षणमरातिवधाय देवाः। सेन्द्राः श्रिता यदनुभावितमाजमीढ तेनाहमद्य मुषितः पुरुषेण भूम्ना ।। १२ ।। यद्बान्धवः कुरुबलाब्धिमनन्तपार- मेको रथेन तरसाऽतरमार्यसत्वः। प्रत्याहृतं पुरधनं च मया परेषां तेजः परं मणिमयं च हृतं शिरोभ्यः ।। १३ ।। यो भीष्मकर्णगुरुशल्यचमूष्वदभ्र- राजन्यवर्यरथमण्डलमण्डितासु। अग्रेचरो मम रथे रथयूथपाना- मायुर्मनांसि च सहसा य आर्च्छत् ।। १४ ।। यद्दोःषु मा प्रणिहितं गुरुभीष्मकर्ण- द्रौणित्रिगर्तशल्यसैन्धवबाह्लिकाद्यैः। अस्त्राण्यमोघमहिमानि निरूपितानि नोपस्पृशुर्नृहरिदासमिवासुराणि ।। १५ ।। यन्मे नृपेन्द्र तदतर्क्यविहार ईशो योsलब्धरूपमवदद् रणमूर्ध्नि दर्शी । यन्माययाssवृतदृशो न विदुः परं तं सूत्रादयोsहमस्मि ममेति भव्याः ।। १६ ।। सौत्ये वृतः कुमतिनात्मद ईश्वरो मे यत्पादपद्ममभवाय भजन्ति भव्याः। संश्रान्तवाहमरयो रथिनो भुविष्ठं न प्राहरन्यदनुभावनिरस्तचित्ताः ।। १७ ।। नर्माण्युदाररुचिरस्मितशोभनानि हे पार्थ हेऽर्जुन सखे कुरुनन्दनेति। सञ्जल्पितानि नरदेव हृदिस्पृशानि स्मर्तुर्लुठन्ति हृदयं मम माधवस्य ।। १८ ।। शय्यासनाटनविकत्थनभोजनादि- ष्वैक्याद्वयस्य ऋभुमानिति विप्रलब्धः। सख्युः सखेव पितृवत्त् तनयस्य सर्वं सेहे महामहितया कुमतेरघं मे ।। १९ ।। सोऽहं नृपेन्द्र रहितः पुरुषोत्तमेन सख्या प्रियेण सुहृदा हृदयेन शून्यः। अध्वन्युरुक्रमपरिग्रहमङ्ग रक्षन् गोपैरसद्भिरबलेव विनिर्जितोऽस्मि ।। २० ।। तद्वै धनुस्त इषवः स रथो हयास्ते सोऽहं रथी नृपतयो यत आनमन्ति। सर्वं क्षणेन तदभूदसदीशरिक्तं भस्मन् हुतं कुहकराद्धमिवोप्तमूषे ।। २१ ।। भागवततात्पर्यम् — स रथो हयास्ते । तादृशा इत्यर्थः । त इषव इतिवत् । “सदृशे वा प्रधाने वा कारणे वा तदित्ययम् । शब्दः सङ्घटते भेदे विद्यमानेपि तत्त्वतः” इति ब्रह्मतर्के । तद्रथहयानां दाहोक्तेः ।
Play Time: 67:55
Size: 7.60 MB