11/02/2018
ಧೃತರಾಷ್ಟ್ರ, ಧರ್ಮರಾಜ, ಅರ್ಜುನ ಮುಂತಾದವರು ದೇವರ ಸಾಕ್ಷಾತ್ಕಾರವನ್ನು ಪಡೆದ ಮಹಾ ದೇವತೆಗಳು. ಇವರಿಗೂ ಸಹ ಯಾವ ಕಾರಣಕ್ಕೆ ಮೋಹ, ಶೋಕಗಳುಂಟಾಗುತ್ತದೆ, ಉಂಟಾದಾಗ ಅವರು ಕಳೆದುಕೊಳ್ಳುವ ಬಗೆ ಹೇಗೆ ಎನ್ನುವ ಪ್ರಶ್ನೆಗಳಿಗೆ ಆಚಾರ್ಯರು ಭಾಗವತತಾತ್ಪರ್ಯದಲ್ಲಿ ನೀಡಿರುವ ಉತ್ತರಗಳ ಅರ್ಥಾನುಸಂಧಾನ ಇಲ್ಲಿದೆ. ಇಲ್ಲಿ ವಿವರಣೆಗೊಂಡ ಭಾಗವತ ಮತ್ತು ಭಾಗವತತಾತ್ಪರ್ಯದ ವಚನಗಳು — राजंस्त्वयानुपृष्टानां सुहृदां नः सुहृत्पुरे। विप्रशापविमूढानां निघ्नतां मुष्टिभिर्मिथः ।। २२ ।। वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम्। अजानतामिवान्योन्यं चतुःपञ्चावशेषिताः ।। २३ ।। प्रायेणैतद् भगवत ईश्वरस्य विचेष्टितम्। मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथः ।। २४ ।। जलौकसां जले यद्वन्महान्तोऽदन्त्यणीयसः। दुर्बलान् बलिनो राजन् महान्तो बलिनो मिथः ।। २५ ।। एवं बलिष्ठैर्यदुभिर्महद्भिरितरान्विभुः। यदून्यदुभिरन्योन्यं भूभारं सञ्जहार ह। कण्टकं कण्टकेनैव द्वयं चापीशितुः समम् ।। २६ ।। देशकालार्थयुक्तानि हृत्तापोपशमानि च। हरन्ति स्मरतश्चित्तं गोविन्दाभिहितानि मे ।। २७ ।। सूत उवाच — एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम्। सौहार्देनातिगाढेन शान्तासीद् विमला मतिः ।। २८ ।। इति श्रीमत्कृष्णद्वैपायनकृते श्रीमद्भागवते प्रथमस्कन्धे चतुर्दशोऽध्यायः । अथ पञ्चदशोऽध्यायः। वासुदेवाङ्घ्र्यभिध्यानपरिबृंहितरंहसा। भक्त्या निर्मथिताशेषकषायधिषणोऽर्जुनः ।। १ ।। गीतं भगवता ज्ञानं यत्तत् सङ्ग्राममूर्धनि। कालकर्मतमोरुद्धं पुनरध्यगमद् विभुः ।। २ ।। विशोको ब्रह्मसम्पत्त्या सञ्छिन्नद्वैतसंशयः। लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः ।। ३ ।। भागवततात्पर्यम् — ज्ञानिनां प्रारब्धस्यैव निर्मथनम्। योग्यस्य। “महता कारणेनैव प्रारब्धान्यपि कानिचित् । कर्माणि क्षयमायान्ति ब्रह्मदृष्टिमतः क्वचित्” इति भविष्यत्पर्वणि । तेषामपि काम्यकर्मफलदृष्टेश्च । तमआदिरोधश्च प्रारब्धकर्मणैव । “ज्ञानादिव्यक्तिरव्यक्तिः सुखदुःखादिकं तथा । सुदृष्टब्रह्मतत्त्वानां भवत्यारब्धकर्मणा” इति ब्रह्मवैवर्ते । ब्रह्मसम्पत्तिरवगतिः । “भगवन्तं विनान्यत्र प्रवृत्त्यादिप्रकाशनम् । प्रारब्धकर्मणैव स्यात् कदाचिज्ज्ञानिनामपि । तां द्वैतदृष्टिं मे देव छिन्धि ज्ञानवरासिना” इति ब्राह्मे । तदेव सञ्छिन्नद्वैतसंशयत्वम्। लीनप्रकृतित्वं नैर्गुण्यं च लीनप्रकृतिनैर्गुण्यम्। तस्मादसूक्ष्मशरीरत्वाद् अनारब्धपुनरुत्पत्तिवर्जितः । ज्ञानोदयकाल एवैवम्भूतः सन् पुनरध्यगच्छत् । “प्रकृतिं स्वात्मसंश्लिष्टां गुणान् सत्वादिकानपि । कर्माणि सूक्ष्मदेहं च जायमाना हरेर्दृशिः ।। दहेदथापि सन्दग्धेन्धनवत् पुनः पुनः । यावदारब्धकर्म स्यादाविर्वापि तिरो व्रजेत्” इति ब्रह्मतर्के।
Play Time: 60:00
Size: 7.60 MB