04/11/2018
“ಶ್ರೇಯಾಂಸಿ ಬಹುವಿಘ್ನಾನಿ” ಯಾವುದೇ ಒಳ್ಳೆಯ ಕೆಲಸ ಮಾಡಬೇರಕಾದರೂ ವಿಘ್ನಗಳು ಇದ್ದೇ ಇರುತ್ತವೆ. ಇನ್ನು ಈ ಕಲಿಗಾಲದಲ್ಲಿ ಸಾಧನೆಯ ಮಾರ್ಗದಲ್ಲಂತೂ ವಿಘ್ನಗಳು ತುಂಬಿರುತ್ತವೆ. ಆ ವಿಘ್ನಗಳು ತಲೆದೋರಿದಾಗ ನಾವು ಅನುಸರಿಸಬೇಕಾದ ಮಾರ್ಗವನ್ನು ಶೌನಕರು ತೋರಿಸಿಕೊಡುತ್ತಾರೆ. ಆವರ ವಚನಗಳ ವಿವರಣೆ ಇಲ್ಲಿದೆ. ಇಲ್ಲಿ ವಿವರಣೆಗೊಂಡ ಭಾಗವತ ಮತ್ತು ಭಾಗವತತಾತ್ಪರ್ಯದ ವಚನಗಳು — (ಸಂಸ್ಕೃತಸುರಭಿಯಲ್ಲಿ ಸಂಸ್ಕೃತದ ಅಕ್ಷರಗಳನ್ನು ಕಲಿಸಿಯಾಗಿದೆ. ಹೀಗಾಗಿ ಇನ್ನು ಮುಂದೆ ಕನ್ನಡದಲ್ಲಿ ಭಾಗವತ ಮತ್ತು ಭಾಗವತತಾತ್ಪರ್ಯಗಳ ವಚನಗಳನ್ನು ನೀಡುವದಿಲ್ಲ. ದೇವನಾಗರೀ ಲಿಪಿಯಲ್ಲಿಯೇ ನೀಡಲಾಗುವದು. ಇನ್ನೂ ಸಂಸ್ಕೃತ ಅಕ್ಷರ ಕಲಿಯದವರು ಕಲಿತು ಓದಿ) एतावानेव यजतामिह निःश्रेयसोदयः । भगवत्यचलो भावो यद्भागवतसङ्गतः ।। ११ ।। ज्ञानं यदा प्रतिनिवृत्तगुणोर्मिचक्र- मात्मप्रसाद उत यत्र गुणेष्वसङ्गः । कैवल्यससम्भृतपथस्त्वथ भक्तियोगः को निर्वृतो हरिकथासु रतिं न कुर्यात् ।। १२ ।। शौनक उवाच — इत्यभिव्याहृतं राजा निशम्य भरतर्षभः । किमन्यत् पृष्टवान् भूयो वैयासकिमृषिं कविम् ।। १३ ।। एतच्छुश्रूषतां विद्वन् सूत नोऽर्हसि भाषितुम् । कथा हरिगुणोदर्काः सतां स्युः सदसि ध्रुवम् ।। १४ ।। स वै भागवतो राजा पाण्डवेयो महारथः । बालक्रीडनकैः क्रीडन् कृष्णक्रीडां य आददे ।। १५ ।। वैयासकिश्च भगवान् वासुदेवपरायणः । उरुगायगुणोदाराः सतां स्युर्हि समागमे ।। १६ ।। आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ । तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया ।। १७ ।। आयुर्हरति वै पुंसामुद्यन्नस्तं च यन्नसौ । तस्यर्ते यः क्षणो नीत उत्तमश्लोकवार्तया ।। १७ ।। भागवततात्पर्यम् — तस्याऽयुषो य उत्तमश्लोकवार्तया ऋते क्षणः स नीत एव। वृथा । तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युत । न खादन्ति न मेहन्ति किं ग्रामपशवोऽपरे ।। १८ ।। श्वविड्वराहोष्ट्रखरैः स तुल्यःपुरुषः पशुः । न यत्कर्णपथोपेतो जातु नाम गदाग्रजः ।। १९ ।। बिले बतोरुक्रमविक्रमान् ये न शृण्वतः कर्णपुटे नरस्य । जिह्वाऽसती दार्दुरिकेव याऽसौ न चेत् प्रागायत्युरुगायगाथाम् ।। २० ।। भारः परं पट्टकिरीटजुष्टमप्युत्तमाङ्गं न नमेन्मुकुन्दम् । शावौ करौ नो कुरुतः सपर्यां हरेर्लसत्काञ्चनकङ्कणौ वा ।। २१ ।। बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये । पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ ।। २२ ।। जीवञ्छवो भागवताङ्घ्रिरेणुं न जातु मर्त्योऽभिलषेत यस्तु । श्रीविष्णुपद्या मनुजस्तुलस्याः श्वसच्छवो यस्तु न वेद गन्धम् ।। २३ ।। तदश्मसारं हृदयं बतेदं यद् गृह्यमाणैर्हरिनामधेयैः । न विक्रियेताथ मुखे विकारो नेत्रे जलं गात्ररुहेषु हर्षः ।। २४ ।। अथाभिधेह्यङ्ग मनोनुकूलं प्रभाषसे भागवतप्रधानः । यदाह वैयासकिरात्मविद्याविशारदो नृपतिं साधु पृष्टः ।। २५ ।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितेन श्रीमद्भागवततात्पर्यनिर्णयेन संयुक्ते श्रीमत्कृष्णद्वैपायनकृते श्रीमद्भागवते द्वितीयस्कन्धे तृतीयोऽध्यायः ।
Play Time: 42:35
Size: 5.97 MB