11/11/2018
ಮನೆಯಲ್ಲಿ ಧರ್ಮಾಚರಣೆ ಮಾಡಲು ಸಾಧ್ಯವಾಗುತ್ತಿಲ್ಲ, ಮನಸ್ಸಿನಲ್ಲಿ ಹರಿಯ ಚಿಂತನೆ ಮೂಡುತ್ತಿಲ್ಲ, ಭಕ್ತಿಯ ಒರತೆ ಬತ್ತುತ್ತಿದೆ ಎಂದಾಗ ಪಠಿಸಬೇಕಾದ ದಿವ್ಯವಾದ ಸೋತ್ರ ಈ ಶುಕಗೀತೆ. ಆ ಪವಿತ್ರ ಸ್ತುತಿಯ ಅರ್ಥಾನುಸಂಧಾನದ ಕಡೆಯ ಭಾಗ ಇಲ್ಲಿದೆ. ಇಲ್ಲಿಗೆ ಭಾಗವತದ ಎರಡನೆಯ ಸ್ಕಂಧದ ನಾಲ್ಕನೆಯ ಅಧ್ಯಾಯದ ಪ್ರವಚನ ಸಮಾಪ್ತವಾಗುತ್ತದೆ. ಇಲ್ಲಿ ವಿವರಣೆಗೊಂಡ ಭಾಗವತ ಮತ್ತು ಭಾಗವತತಾತ್ಪರ್ಯದ ವಚನಗಳು — स एष आत्माऽऽत्मवतामधीश्वरस्त्रयीमयो धर्ममयस्तपोमयः । गतव्यलीकैरजशङ्करादिभिर्वितर्क्यलिङ्गो भगवान् प्रसीदताम् ।। १९ ।। भागवततात्पर्यम् “वेदानुसारिवशगः स्वेच्छया तु हरिर्यतः । अतः स्वतन्त्रमप्याहुः प्राज्ञा वेदमयेति ह” इत्यध्यात्मे । श्रियः पतिर्यज्ञपतिः प्रजापतिः धियां पतिर्लोकपतिर्धरापतिः । पतिर्गतिश्चाऽन्धकवृष्णिसात्वतां प्रसीदतां मे भगवान् सतां पतिः ।। २० ।। यदङ्घ्र्यभिध्यानसमाधिधौतया धियाऽनुपश्यन्ति हि तत्वमात्मनः वदन्ति चैतत् कवयो यथारुचं स मे मुकुन्दो भगवान् प्रसीदताम् ।। २१ ।। प्रचोदिता येन पुरा सरस्वती वितन्वताऽजस्य सतीं स्थितिं हृदि । स्वलक्षणा प्रादुरभूत् किलाऽस्यतः स मे ऋषीणामृषभः प्रसीदताम् ।। २२ ।। भूतैर्महद्भिर्य इमाः पुरो विभुर्निर्माय शेते यदमूषु पूरुषः । भुङ्क्ते गुणान् षोडश षोडशात्मकः सोऽलङ्कृषीष्ट भगवान् वचांसि मे ।। २३ ।। नमस्तस्मै भगवते वासुदेवाय वेधसे । पपुर्ज्ञानमयं सौम्या यन्मुखाम्बुरुहासवम् ।। २४ ।। एतदेवाऽत्मभू राजन् नारदायेति पृच्छते । वेदगर्भोऽभ्यधात् सर्वं यदाह हरिरात्मनः ।। २५ ।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितेन श्रीमद्भागवततात्पर्यनिर्णयेन संयुक्ते श्रीमत्कृष्णद्वैपायनकृते श्रीमद्भागवते द्वितीयस्कन्धे चतुर्थोऽध्यायः ।
Play Time: 47:28
Size: 5.97 MB