09/12/2018
ತತ್ವಗಳ ನಿರ್ಮಾಣವಾದ ನಂತರ ಬ್ರಹ್ಮಾಂಡ ಮತ್ತು ಅದರೊಳಗೆ ಲೋಕಗಳು ನಿರ್ಮಾಣವಾಗುವ ರೋಚಕ ಘಟನೆಯ ವಿವರ ಇಲ್ಲಿದೆ. ನಾಲ್ಕು ರೀತಿಯ ವಿರಡ್ರೂಪಗಳ ನಿರೂಪಣೆಯೊಂದಿಗೆ. ತ್ರಿಮೂರ್ತಿಗಳಾದ ಬ್ರಹ್ಮ-ವಿಷ್ಣು-ಮಹೇಶ್ವರರ ಕುರಿತ ವಿವರ ಇಲ್ಲಿದೆ. ಇಲ್ಲಿಗೆ ಎರಡನೆಯ ಸ್ಕಂಧ, ಐದನೆಯ ಅಧ್ಯಾಯದ ಅರ್ಥಾನುಸಂಧಾನ ಇಲ್ಲಿಗೆ ಮುಗಿದು ಮಧ್ವಪತಿಗೆ ಸಮರ್ಪಿತವಾಗುತ್ತದೆ. ಇಲ್ಲಿ ವಿವರಣೆಗೊಂಡ ಶ್ರೀಮದ್ ಭಾಗವತ ಮತ್ತು ಭಾಗವತತಾತ್ಪರ್ಯದ ವಚನಗಳು — तामसादपि भूतादेर्विकुर्वाणादभून्नभः। तस्य मात्रा गुणः शब्दो लिङ्गं यद् द्रष्टृदृश्ययोः ।। २४ ।। भागवततात्पर्यम् । “पञ्चेन्द्रियाभिमेयत्वान्मात्रागुण इतीरितः” इति मात्स्ये । “शब्देनैव परो द्रष्टा ज्ञायते जगदेव च” इति विष्णुसंहितायाम् । नभसोऽथ विकुर्वाणादभूत् स्पर्शगुणोऽनिलः परान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम् ।। २५ ।। भागवततात्पर्यम् । “सर्वचेष्टयितृत्वात्तु प्राणोऽभिभवशक्तितः। ओजस्त्वनभिभाव्यत्वात् सहश्च स्वेच्छया कृतेः। बलं विधारकत्वाच्च विधृतिर्वायुरुच्यते” इति च भारते । वायोरपि विकुर्वाणात् कालकर्मस्वभावतः । उदपद्यत तेजो वै रूपवत् स्पर्शशब्दवत् ।। २६ ।। तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम् । रूपवत् स्पर्शवच्चाम्भो घोषवच्च तदन्वयात् ।। २७ ।। विशेषस्तु विकुर्वाणादम्भसो गन्धवानभूत् । परान्वयाद् रसस्पर्शरूपशब्दगुणान्वितः ।। २८ ।। वैकारिकान्मनो जज्ञे देवा वैकारिका दश । दिग्वातार्कप्रचेतोश्विवह्नीन्द्रोपेन्द्रमित्रकाः ।। २९ ।। भागवततात्पर्यम् । “अनाद्यनन्तोऽपि हरिर्वैकारिकगणेष्वजः । अवतीर्णः पदाङ्गुष्ठमध्यास्ते विश्वभुग् विभुः ।। पाददेवस्तु यज्ञोऽन्यस्तं प्रविश्य हरिः स्वयम् । सर्वं विधारयन् देहे वर्ततेऽनन्तशक्तिधृक्” इति वह्निपुराणे । तैजसात् तु विकुर्वाणादिन्द्रियाणि दशाभवन् । ज्ञानशक्तिः क्रियाशक्तिर्बुद्धिः प्राणस्तु तैजसः ।। ३० ।। श्रोत्र-त्वग्- घ्राण-दृग्-जिह्वा-वाग्-दोर्मेढ्राङ्घ्रि-पायवः । य एतेऽसङ्गता भावा भूतेन्द्रियमनोगुणाः । यदायतननिर्माणे न शेकुर्ब्रह्मवित्तम ।। ३१ ।। तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः । सदसत्वमुपादाय नो भयं ससृजुर्ह्यदः ।। ३२ ।। भागवततात्पर्यम् — सदसत्त्वं व्यक्ताव्यक्तत्वम् । नः। अदः ब्रह्माण्डम् । ब्रह्माण्डं हि वदन्ति जीवानां भयकारणम् । तत्र हि संसृतिः । “आकाशवायू त्वव्यक्ते इतरेऽण्डे प्रकाशिताः । तथात्वाद् बाह्यभूतानामण्डस्थानां च सा गतिः” मात्स्ये । वर्षपूगसहस्रान्ते तदण्डमुदकेशयम् । कालकर्मस्वभावस्थो[ऽ]जीवो[ऽ]जीवमजीजनत् ।। ३३ ।। भागवततात्पर्यम् — कालकर्मस्वभावस्थः अजीवः परमेश्वरः अजीवं स्वात्मानमजीजनत् । तदण्डं यथा स्वात्मानं प्रसूते तथा चकार । “यः प्राणधारणं प्राणप्रसादात् कुरुतेऽनिशम् । स जीव इति सन्दिष्टस्तदन्योऽजीव उच्यते ।। यत्प्रसादात् स तु प्राणः कुरुते स्वस्य धारणम्” इति वायुप्रोक्ते । “कालकर्मस्वभावस्थो वासुदेवः परः पुमान् । अकरोदण्डमुद्वृद्धमात्मप्रसवकारणम्” इति ब्रह्माण्डे । जीव इति वा । “प्राणं धारयते यस्मात् स जीवः परमेश्वरः । अजीवोऽपि महेतेजास्त्वथवा जीवयन् जगत्” इति स्कान्दे । स एव पुरुषस्तस्मादण्डं निर्भिद्य निर्गतः । सहस्रोर्वङ्घ्रिबाह्वक्षिः सहस्राननशीर्षवान् ।। ३४ ।। भागवततात्पर्यम् । “अण्डे जातौ पुमांसौ द्वौ हरिर्ब्रह्मा तथैव च । अनादिस्तु हरिस्तत्र ब्रह्मा सादिरुदाहृतः” इति स्कान्दे । यस्येहावयवैर्लोकान् कल्पयन्ति मनीषिणः । ऊर्वादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः ।। ३५ ।। भागवततात्पर्यम् । “हरेरवयवैर्लोकाः सृष्टा इति विकल्पनम् । साक्षात् सत्यमतोऽन्यस्माद् व्यावहारिकमुच्यते” इति मात्स्ये । पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवः । ऊर्वोर्वैश्यो भगवतः पद्भ्यां शूद्रो व्यजायत ।। ३६ ।। भागवततात्पर्यम् । “ब्राह्मणो मुखमित्येव मुखात् जातत्वहेतुतः । यथाऽवदच्छ्रुतौ तद्वद् जीवो ब्रह्मेति वा भवेत्” इति ब्राह्मे । भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः । हृदा स्वर्लोक उरसा महर्लोको महात्मनः ।। ३८ ।। ग्रीवायां जनलोकश्च तपोलोकोऽस्य नेत्रयोः । मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः ।। ३९ ।। तत्कट्यामतलं कॢप्तमूरुभ्यां वितलं विभोः । जानुभ्यां सुतलं क्लृप्तं जङ्घाभ्यां तु तलातलम् ।। ४० ।। महातलं तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् । पातालं पादतलत इति लोकमयः पुमान् ।। ४१ ।। भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकस्तु नाभितः । स्वर्लोकः कल्पितो मूर्ध्नि इति वा लोककल्पना ।। ४२ ।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितेन श्रीमद्भागवततात्पर्यनिर्णयेन संयुक्ते श्रीमत्कृष्णद्वैपायनकृते श्रीमद्भागवते द्वितीयस्कन्धे पञ्चमोऽध्यायः ।
Play Time: 48:35
Size: 5.54 MB