08/04/2019
ವರಾಹ, ಯಜ್ಞ, ಕಪಿಲ, ದತ್ತ, ವಿಷ್ಣು ,ಹರಿ, ಕೃಷ್ಣ, ನಾರಾಯಣ ರೂಪಗಳ ಚಿಂತನೆ ಇಲ್ಲಿದೆ. ರುಚಿ ಪ್ರಜಾಪತಿಯ ಮಗನಾಗಿ ಭಗವಂತ ಯಜ್ಞ ಎಂಬ ಹೆಸರಿನ ಅವತರಿಸಿದ್ದಾನೆ. ಇಂದ್ರನ ಮಗನಾದ ಒಬ್ಬ ದೇವತೆಗೂ ಯಜ್ಞ ಎಂಬ ಹೆಸರಿದೆ. ಸಕಲ ಯಜ್ಞಗಳಿಗೆ ಅಭಿಮಾನಿಯಾದ ದೇವತೆ. ಆ ವಿವರ ಇಲ್ಲಿದೆ. ಈ ಸಂದರ್ಭದಲ್ಲಿ ಬರುವ ಸುಯಜ್ಞ ಎಂಬ ಶಬ್ದಕ್ಕೆ ಶ್ರೀ ವಿಜಯಧ್ವಜಾಚಾರ್ಯರು ಮಾಡಿರುವ ಸುಂದರ ವ್ಯಾಖ್ಯಾನದ ವಿವರಣೆ ಇಲ್ಲಿದೆ. ಸಾಧನೆ ಮಾಡುವ ಜನರಿಗೆ ದೇವತೆಗಳು ವಿಘ್ನವನ್ನು ನೀಡಲು ಮೂರು ಕಾರಣಗಳಿವೆ. ಅವುಗಳ ವಿವರಣೆ ಇಲ್ಲಿದೆ. ಬದರಿಯಲ್ಲಿ ತಪಸ್ಸು ಮಾಡುತ್ತಿರುವ ನಾರಾಯಣರೂಪದ ಭಗವಂತನ ತಪಸ್ಸನ್ನು ಕೆಡಿಸಬೇಕೆಂದು ಅಪ್ಸರಸ್ತ್ರೀಯರು ಬರುತ್ತಾರೆ, ಆದರೆ ದೇವರನ್ನು ವಿಚಲಿಸಲು ಏಕೆ ಸಾಧ್ಯವಾಗುವದಿಲ್ಲ ಎನ್ನುವದಕ್ಕೆ ಬ್ರಹ್ಮದೇವರು ನೀಡಿರುವ ದಿವ್ಯ ಕಾರಣದ ವಿವರಣೆ ಇಲ್ಲಿದೆ. ಇಲ್ಲಿ ವಿವರಣೆಗೊಂಡ ಭಾಗವತ ಮತ್ತು ಭಾಗವತತಾತ್ಪರ್ಯದ ವಚನಗಳು — प्राधान्यतो यानृषय आमनन्ति लीलावतारान् पुरुषस्य भूम्नः । आपीयतां कर्मकषायशोषाननुक्रमिष्ये त इमान् सुपेशान् ।। ४५ ।। भागवततात्पर्यम् । “प्रधानत्वेन सर्वेषां मत्स्यकूर्मादयो हरेः । अवताराः श्रुतौ ख्याताः स एवैते ततः स्मृता ।। न स्वरूपं तु ब्रह्माद्याः स्मृता मायाविभूतयः । स्वेच्छयैषां विशिष्टत्वं कुरुते तत् तथा स्मृताः” इति व्योमसंहितायाम् । अथ सप्तमोऽध्यायः । ब्रह्मोवाच — यत्रोद्गतः क्षितितलोद्धरणाय बिभ्रत् क्रौडीं तनुं सकलयज्ञमयीमनन्तः । अन्तर्महार्णव उपागतमादिदैत्यं तं दंष्ट्रयाऽद्रिमिव वज्रधरो ददार ।। १ ।। जातो रुचेरजनयत् सुयशाः सुयज्ञ आकूतिसूनुरमरानथ दक्षिणायाम् । लोकत्रयस्य महतीमहरद् य आर्तिं स्वायम्भुवेन मनुना हरिरित्यनूक्तः ।। २ ।। भागवततात्पर्यम् । “क्रियाभिमानाद् यज्ञोऽसाविन्द्रसूनुः प्रकीर्तितः । यज्ञेशत्वात् स्वयं विष्णुर्ज्ञेयो रुचिसुतः स्मृतः” इति पाद्मे । हरिरिति ज्ञात्वा “ईशावास्यम्” इत्यादिनाऽनूक्तः । “त्रयी श्रुतिर्नित्यवाक् च वेदोऽनुवचनं तथा” इति ह्यभिधानम् । जज्ञे च कर्दमगृहे द्विज देवहूत्यां स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे । ऊचे य आत्मशमलं गुणसङ्गपङ्क- मस्मिन् विधूय कपिलः स्वगतिं प्रपेदे ।। ३ ।। अत्रेरपत्यमभिकाङ्क्षत आह तुष्टो दत्तो मयाऽहमिति यद् भगवान् स दत्तः । यत्पादपङ्कजपरागपवित्रदेहा योगर्धिमापुरमयीं यदुहैहयाद्याः ।। ४ ।। भागवततात्पर्यम् —— अमयीं विष्णुप्रधानाम् । तप्तं तपो विविधलोकसिसृक्षया म आदौ सनात् सुतपसस्तपतः स नोऽभूत् । प्राक्कल्पसम्प्लवविनष्टमिहाऽत्मतत्वं सम्यग् जगाद मुनयो यदचक्षताऽत्मन् ।। ५ ।। भागवततात्पर्यम् — मे तपतः सतः । स नः अर्थे । सनात् पूर्वम् । “ब्रह्मणस्तपतः पूर्वं विष्णुर्जात उरुक्रमः । सर्वलोकहितार्थाय येन रूपं प्रकाशितम् ।। यश्च पाति सदा लोकानजितो जयतां वरः । तस्माद् रुद्रः समुत्पन्नः सर्वसंहारकृद् विभुः ।। एते त्रिपुरुषाः प्रोक्ताः सृष्टिस्थित्यन्तकारिणः । निमित्तमात्रं तौ देवौ विष्णुः सर्वस्य कारणम्” इति स्कान्दे।। धर्मस्य दक्षदुहितर्यजनि स्वमूर्त्या नारायणो नर इति स्वतपःप्रभावः । दृष्टात्मनो भगवतो नियमावलोपं देव्यस्त्वनङ्गपृतना घटितुं न शेकुः ।। ६ ।। भागवततात्पर्यम् । “नरो नारायणश्चैव हरिः कृष्णस्तथैव च । चत्वारो धर्मतनया हरिरेव त्रयो मताः।। अनन्तो नरनामाऽत्र तस्मिंस्तु नरनामवान्। विशेषेण स्वयं विष्णुर्निवसत्यम्बुजेक्षणः। तस्मात् चतुर्धा धर्मस्य जातो विष्णुरितीर्यते” इति षाड्गुण्ये ।। कामं दहन्ति कृतिनो ननु रोषदृष्ट्या रोषं दहन्तमुत ते न दहन्त्यसह्यम् । सोऽयं यदन्तरमलं निविशन् बिभेति कामः कथं नु पुनरस्य मनः श्रयेत ।। ७ ।।
Play Time: 42:38
Size: 5.51 MB