14/04/2019
ರಾಜ, ಮಹಾರಾಜ, ಚಕ್ರವರ್ತಿ ಎಂಬ ಶಬ್ದಗಳ ಅರ್ಥವನ್ನು ತಿಳಿಯುವದರೊಂದಿಗೆ ಭಗವಂತನ ಅದ್ಭುತವಾದ ರಾಜರಾಜೇಶ್ವರರೂಪದ ಚಿಂತನೆ ಇಲ್ಲಿದೆ. ಧನ್ವಂತರಿ, ಪರಶುರಾಮ, ಶ್ರೀರಾಮಚಂದ್ರ ಅವತಾರಗಳ ವಿವರಣೆಯೊಂದಿಗೆ. ಇಲ್ಲಿ ವಿವರಣೆಗೊಂಡ ಭಾಗವತ ಮತ್ತು ಭಾಗವತತಾತ್ಪರ್ಯದ ವಚನಗಳು — द्वितीयस्कन्धे सप्तमोऽध्यायः । चक्रं च दिक्ष्वविहतं दशसु स्वतेजो मन्वन्तरेषु मनुवंशधरो बिभर्ति । दुष्टेषु राजसु दमं व्यदधत् स्वकीर्तिं सत्ये निविष्ट उशतीं प्रथयंश्चरित्रैः ।। २० ।। भागवततात्पर्यम् । “मन्वन्तरेषु भगवांश्चक्रवर्तिषु संस्थितः । चतुर्भुजो जुगोपैतद् दुष्टराजन्यनाशकः ।। राजराजेश्वरेत्याहुर्मुनयश्चक्रवर्तिनाम् । वीर्यदं परमात्मानं शङ्खचक्रगदाधरम्” इति सत्यसंहितायाम् । धन्वन्तरिश्च भगवान् स्वयमास देवो नाम्ना नृणां पुरुरुजां रुज आशु हन्ति । यज्ञे च भागममृतायुरवाप चाद्धा आयुश्च वेदमनुशास्त्यवतीर्य लोके ।। २१ ।। क्षत्रं क्षयाय विधिनोपभृतं महात्मा ब्रह्मध्रुगुज्झितपथं नरकार्तिलिप्सु । उद्धन्त्यसाववनिकण्टकमुग्रवीर्यः त्रिःसप्तकृत्व उरुधारपरश्वधेन ।। २२ ।। कृत्स्नप्रसादसुमुखः कलया कलेश इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे । तिष्ठन् वनं सदयितानुज आविवेश यस्मिन् विरुध्य दशकन्धर आर्तिमार्च्छत् ।। २३ ।। भागवततात्पर्यम् — प्राणादिकलेशः । यस्मा अदादुदधिरूढभयाङ्गवेपो मार्गं सपद्यरिपुरं हरवद् दिधक्षोः । दूरेसुहृन्मथितरोषसुशोषदृष्ट्या तातप्यमानमकरोरगनक्रचक्रः ।। २४ ।। भागवततात्पर्यम् — दूरस्था सुहृद् यस्य भगवतः स दूरेसुहृत् । सुशोषोऽग्निः । “अग्निः सुशोषः कक्षघ्नस्तिमिरारिर्हिरण्यदः” इति ह्यभिधाने । वक्षःस्थलस्पर्शरुग्णमहेन्द्रवाह- दन्तैर्विलम्बितककुब्जयरूढहासः । सद्योऽसुभिः सह विनेष्यति दारहर्तु- र्विस्फूर्जितैर्धनुष उच्चरितैः ससैन्यः ।। २५ ।। भागवततात्पर्यम् — विनेष्यति विनाशं प्राप्नोति । दारहर्तुः भगवतः । “धनुर्विस्फूर्जितैर्नष्टो रावणः पूर्वमेव तु । पुनः शरै राममुक्तैः सानुबन्धो विनेश्यति” इति स्कान्दे ।
Play Time: 33:34
Size: 5.51 MB