14/04/2019
ಬ್ರಹ್ಮದೇವರ ಮುಖದಿಂದ ಹೊರಹೊಮ್ಮಿದ ಶ್ರೀಕೃಷ್ಣಾವತಾರದ ಮತ್ತು ವೇದವ್ಯಾಸಾವಾತಾರದ ಅದ್ಭುತ ವರ್ಣನೆ. ಇಲ್ಲಿ ವಿವರಣೆಗೊಂಡ ಭಾಗವತ ಮತ್ತು ಭಾಗವತತಾತ್ಪರ್ಯದ ವಚನಗಳು — भूमेः सुरेतरवरूथविमर्दितायाः क्लेशव्ययाय कलया सितकृष्णकेशः । जातः करिष्यति जनानुपलक्ष्यमार्गः कर्माणि चाऽत्ममहिमोपनिबन्धनानि ।। २६ ।। भागवततात्पर्यम् । “राम एको ह्यनन्तांशस्तत्र रामाभिधो हरिः । शुक्लकेशात्मकस्तिष्ठन् रमयामास वै जगत्” इति ब्राह्मे । “विष्णोर्नान्येन कर्माणि परेषां तन्निबन्धनम्” इति मात्स्ये । तोकेन जीवहरणं यदुलूकिकाया- स्त्रैमासिकस्य च पदा शकटोऽपवृत्तः । यद् रङ्गताऽन्तरगतेन दिविस्पृशोर्वा उन्मूलनं त्वितरथाऽर्जुनयोर्न भाव्यम् ।। २७ ।। भागवततात्पर्यम् —“सहस्रधनुषस्तूर्ध्वं द्युशब्देनापि भण्यते” इति तन्त्रमालायाम् । इतरथा विष्णुर्न चेत् । स्वमहिमनिबन्धनत्वेन न भाव्यम् । यद्वै व्रजे व्रजपशून् विषतोयपीतान् गोपांस्तु जीवयदनुग्रहदृष्टिवृष्ट्या । तच्छुद्धयेऽतिविषवीर्यविलोलजिह्व- मुच्चाटयिष्यदुरगं विहरद् ह्रदिन्याम् ।। २८ ।। तत् कर्म दिव्यमिव यन्निशि निःशयानं दावाग्निनाऽऽशु विपिने परिदह्यमाने । उन्नेष्यति व्रजमतोऽवसितान्तकालं नेत्रे पिधाप्य सबलोऽनधिगम्यवीर्यः ।। २९ ।। भागवततात्पर्यम् —दिव्यमिव स्तुत्यमिव तदपेक्षया । अन्येषां स्तुत्यमेव। गृह्णीत यद्यदुपबद्धुममुष्य माता शुल्बं सुतस्य नतु तत्तदमुष्य माति । यज्जृम्भतोऽस्य वदने भुवनानि गोपी संवीक्ष्य शङ्कितमनाः प्रतिबोधितस्य ।। ३० ।। भागवततात्पर्यम् —यत् तच्च दिव्यमिव । नन्दं च मोक्ष्यति भयाद् वरुणस्य पाशाद् गोपान् बिलेषु पिहितान् मयसूनुना च । जल्प्याऽऽवृतं निशि शयानमतिश्रमेण । लोके विकुण्ठ उपधास्यति गोकुलं स्म ।। ३१ ।। भागवततात्पर्यम् — “अन्यथाज्ञानहेतुर्या वाक् सा जल्पिः प्रकीर्तिता” इति तन्त्रमालायाम् । “यत् तु सर्वात्मनाऽज्ञानं निशा सा परिकीर्तिता” इति कौर्मे । गोपैर्मखे प्रतिहते व्रजविप्लवाय देवेऽभिवर्षति पशून् कृपया रिरक्षुः । धर्तोच्छिलीन्ध्रमिव सप्तदिनानि सप्त- वर्षो महीध्रमनघैककरे सलीलम् ।। ३२ ।। क्रीडन् वने निशि निशाकररश्मिगौर्यां रासोन्मुखः कलपदायतमूर्च्छितेन । उद्दीपितस्मररुजां व्रजसद्वधूनां हर्तुर्हरिष्यति शिरो धनदानुगस्य ।। ३३ ।। भागवततात्पर्यम् —कलपदं च आयतं च । “सस्वस्वरसमाहारो मूर्च्छनेति प्रकीर्तिता” इति गान्धर्वे । ये च प्रलम्बखरदर्दुरकेश्यरिष्ट- मल्लेभकंसयवनाः कुजपौण्ड्रकाद्याः । अन्येऽपि साल्वकपिविल्वलदन्तवक्र- सप्तोक्षशम्बरविडूरथरुग्मिमुख्याः ।। ३४ ।। ये वा मृधे समितिशालिन आत्तचापाः काम्बोजमत्स्यकुरुसृञ्जयकैकयार्णाः । यास्यन्त्यदर्शनमिता बलपार्थभीम- व्याजाह्वयेन हरिणा निलयं तदीयम् ।। ३५ ।। भागवततात्पर्यम् । “विद्वेषिणोऽप्युदासीना भक्ता अपि न संशयः । हरेर्हि सदनं यान्ति व्यक्तं भक्तैस्तु गम्यते ।। आरभ्य तम आमुक्तेः कृष्णस्य सदनं यतः । अव्यक्तहरिलोकत्वादन्येषामन्यलोकता” इति बृहत्संहितायाम् । “रामभीमार्जुनादीनि विष्णोर्नामानि सर्वशः । रमणाभयवर्णाद्याः शब्दवृत्तेर्हि हेतवः ।। हरिर्हि तत्रतत्रस्थो रमणादीन् करोत्यजः । अतस्तस्यैव नामानि व्याजादन्यगतानि तु ।। व्यवहारप्रवृत्त्यर्थं दुष्टानां मोहनाय च” इति स्कान्दे । कालेन मीलितदृशामवमृश्य नृणां स्तोकायुषां स्वनिगमो बत दूरपारः । आविर्हितस्त्वनुयुगं स हि सत्यवत्यां वेदद्रुमं विटपशो विभजिष्यति स्म ।। ३६ ।।
Play Time: 46:18
Size: 5.51 MB