14/04/2019
ಬುದ್ಧಾವತಾರ, ಕಲ್ಕ್ಯವತಾರಗಳ ಕಥೆಗಳನ್ನು ಹೇಳಿದ ಬ್ರಹ್ಮದೇವರು ದೇವರು ಅನಂತ ಎನ್ನುವದನ್ನು ಅದ್ಭುತವಾಗಿ ನಿರೂಪಿಸುತ್ತಾರೆ. ಶೇಷದೇವರನ್ನು ಆದಿದೇವ ಎಂದು ಏಕೆ ಕರೆಯುತ್ತಾರೆ, ಮನುಷ್ಯನೊಬ್ಬ ಪಾದರಕ್ಷೆಯೂ ಇಲ್ಲದೇ ಬಿಸಿಲಲ್ಲಿ ನಡೆದು ಹೋಗುತ್ತಿರುತ್ತಾನೆ, ಪಾದರಕ್ಷೆಯ ಆವಶ್ಯಕತೆಯೇ ಇಲ್ಲದ ನಾಯಿಯೊಂದನ್ನು ಅದರ ಮಾಲೀಕ ಕಾರಿನಲ್ಲಿ ಓಡಾಡಿಸುತ್ತಾನೆ. ಏಕೆ ಹೀಗೆ? ಈ ಪ್ರಶ್ನೆಗಳಿಗೆ ಉತ್ತರ ಇಲ್ಲಿದೆ. ಇಲ್ಲಿ ವಿವರಣೆಗೊಂಡ ಭಾಗವತ ಮತ್ತು ಭಾಗವತತಾತ್ಪರ್ಯದ ವಚನಗಳು — देवद्विषां निगमवर्त्मनि विष्ठितानां पूर्भिर्मयेन विहिताभिरदृश्यमूर्तिः । लोकान् घ्नतां मतिविमोहमतिप्रलोभं वेषं विधाय यदभाषत औपधर्म्यम् ।। ३७ ।। यर्ह्यालयेष्वपि सतां न कथा हरेः स्युः पाषण्डिनो द्विजजना वृषला नृदेवाः । स्वाहा स्वधा वषडिति स्म गिरो न यत्र शास्ता भविष्यति कलेर्भगवान् युगान्ते ।। ३८ ।। सर्गे तु योऽहमृषयो नव ये प्रजेशाः स्थानेऽथ धर्ममखमन्वमरावनीशाः । अन्ते त्वधर्महरमन्युवशासुराद्या मायाविभूतय इमाः पुरुशक्तिभाजः ।। ३९ ।। भागवततात्पर्यम् । “हरीच्छया विभूतिर्यद् ब्रह्मादीनां सदा भवेत् । इच्छया वा बहुविधस्तेषु विष्णुः स्वयं स्थितः । अतो मायाविभूतित्वं तेषां मत्स्यादिकाः स्वयम्” इत्यध्यात्मे । विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह यः पार्थिवान्यपि कविर्विममे रजांसि । चस्कम्भ यः स्वरभसा स्खलितं त्रिपृष्ठं यन्मां निशाम्य सदनादुरुकम्पमानम् ।। ४० ।। नान्तं विदाम्यहममी मुनयः प्रजेशा मायाबलस्य पुरुषस्य कुतोऽपरे ये । गायन् गुणान् दशशतानन आदिदेवः शेषोऽधुनाऽपि समवस्यति नास्य पारम् ।। ४१ ।।
Play Time: 39:55
Size: 5.51 MB