14/04/2019
ದೇವರಲ್ಲಿ ಭಕ್ತಿ ಮಾಡಿ ದೇವರನ್ನು ಪಡೆದವರು ಯಾರಾದರೂ ಇದ್ದಾರೆಯೇ? ದೇವರು ದೊರೆತ ಬಳಿಕವೂ ಮತ್ತೆ ನಾವು ಸಂಸಾರದಲ್ಲಿ ಆಸಕ್ತರಾದರೆ ಗತಿಯೇನು, ದೇವರು ಕೈಬಿಡುವದಿಲ್ಲವೇ? ಈ ಜನ್ಮದಲ್ಲೇನೋ ದೇವರ ದಯೆ ಕಿಂಚಿತ್ ದೊರಕಿದೆ, ಸತ್ತ ಬಳಿಕ ದೂರವಾದರೆ, ಈ ಜನ್ಮದಲ್ಲಿ ದೊರೆತ ದೇವರ ದಯೆ ಮುಂದಿನ ಜನ್ಮದಲ್ಲಿಯೂ ಇರುತ್ತದೆಯೇ? ಮುಂತಾದ ಅನೇಕ ಪ್ರಶ್ನೆಗಳಿಗೆ ಬ್ರಹ್ಮದೇವರು ನೀಡಿದ ಉತ್ತರಗಳು ಇಲ್ಲಿವೆ. ಭಕ್ತಿ ಮತ್ತು ಭಾಗವತಗಳ ಮಾಹಾತ್ಮ್ಯದೊಂದಿಗೆ. ಇಲ್ಲಿ ವಿವರಣೆಗೊಂಡ ಭಾಗವತ ಮತ್ತು ಭಾಗವತತಾತ್ಪರ್ಯಗಳ ವಚನಗಳು — येषां स एव भगवान् दययेदनन्तः सर्वात्मनाऽऽश्रितपदो यदि निर्व्यलीकम् । ते वै विदन्त्यतितरन्ति च देवमायां नैषां ममाहमिति धीः श्वसृगालभक्ष्ये ।। ४२ ।। भागवततात्पर्यम् — देवमायां विदन्ति संसारमतितरन्ति च । वेदाहमङ्ग परमस्य हि योगमायां यूयं भवश्च भगवानथ दैत्यवर्यः । पत्नी मनोः स च मनुस्तदपत्यभूताः प्राचीनबर्हिऋभुरङ्ग उत ध्रुवश्च ।। ४३ ।। इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि- रघ्वम्बरीषसगरा गयनाहुषाद्याः । मान्धात्रलर्कशतधन्वनरन्तिदेव देवव्रता बलिरमूर्तरयो दिलीपः ।। ४४ ।। सौभर्युदङ्कशिबिदेवलपिप्पलादाः सारस्वतोद्धवपराशरभूरिषेणाः । येऽन्ये विभीषणहनूमदुपेन्द्रदत्त- पार्थार्ष्टिषेणविदुरश्रुतदेवमुख्याः ।। ४५ ।। ते वै विदन्त्यतितरन्ति च देवमायां स्त्रीशूद्रहूणशबरा अपि पापजीवाः । यद्यद्भुतक्रमपरायणशीलशिक्षा- स्तिर्यग्जना अपि किमु श्रुतधारणा ये ।। ४६ । भागवततात्पर्यम् — तत्परायणास्तच्छीलास्तच्छिक्षाश्च । शश्वत् प्रशान्तमभयं प्रतिबोधमात्रं शुद्धं समं सदसतः परमात्मतत्वम् । शब्दो न यत्र पुरुकारकवान् क्रियार्थो माया परैत्यभिमुखे च विलज्जमाना ।। ४७ ।। भागवततात्पर्यम् । “अव्यक्ताद्यनहंमानादात्मतत्त्वं हरिः स्मृतः । अशब्दश्चाप्रसिद्धत्वात् शान्तः पूर्णसुखत्वतः” इति ब्रह्मतर्के । तद् वै पदं भगवतः परमस्य पुंसो ब्रह्मेति यद् विदुरजस्रसुखं विशोकम् । सम्यङ् निशाम्य यतयो यमलोकहेतुं जह्युः सुधामिव निपानखनित्रमिन्द्रः ।। ४८ ।। स श्रेयसामपि विभुर्भगवान् यतोऽस्य भावस्वभावविहितस्य सतः प्रसिद्धः । देहे स्वधातुविगमे तु विशीर्यमाणे व्योमेव तत्र पुरुषो न विशीर्यतेऽजः ।। ४९ ।। भागवततात्पर्यम् — भावस्वभावो भक्तिस्वभावः । तथा निर्मितस्य सत्पुरुषस्य प्रसिद्धः । “भावो भक्तिः प्रणामश्च प्रावण्यमपि चाऽदरः” इत्यभिधानात् । सोऽयं तेऽभिहितस्तात भगवान् विश्वभावनः । समासेन हरेर्नान्यदन्यस्मात् सदसच्च यत् ।। ५० ।। भागवततात्पर्यम् । “सत्तादिर्यत् स्वतो विष्णोस्तस्मादन्यः स सर्वतः । यत् सत्तादिरतोऽन्यस्य नान्यत्वं भेदिनोऽपि तु” इति ब्रह्माण्डे । इदं भागवतं नाम यन्मे भगवतोदितम् । सङ्ग्रहोऽयं विभूतीनां तदेतद् विपुलीकुरु ।। ५१ ।। यथा हरौ भगवति नृणां भक्तिर्भविष्यति । सर्वात्मन्यखिलाधार इति सङ्कल्प्य वर्णय ।। ५२ ।। नृजन्मनि न तुष्येत किं फलं यमनश्वरे। कृष्णे यद्यपवर्गेशे भक्तिः स्यान्नानपायिनी ।। ५३ ।। किं स्याद् वर्णाश्रमाचारैः किं दानैः किं तपः श्रुतैः सरवाघघ्नोत्तमश्लोके न चेद् भक्तिरधोक्षजे ।। ५४ ।। भागवततात्पर्यम् । “आक्षिप्यते किमित्येतद् यत्राऽल्पफलता भवेत् । वस्तुनो यस्य चाल्पत्वं पुंसो वा नेति चोच्यते” इति प्रकाशसंहितायाम् । मायां वर्णयतोऽमुष्य ईश्वरस्यानुमोदतः । शृण्वतः श्रद्धया नित्यं माययाऽऽत्मा न मुह्यति ।। ५५ ।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितेन श्रीमद्भागवततात्पर्यनिर्णयेन संयुक्ते श्रीमत्कृष्णद्वैपायनकृते श्रीमद्भागवते द्वितीयस्कन्धे सप्तमोऽध्यायः ।
Play Time: 53:06
Size: 5.51 MB