23/04/2019
ಬ್ರಹ್ಮದೇವರು ಶ್ವೇತದ್ವೀಪದಲ್ಲಿರುವ ಮುಕ್ತರನ್ನು ಕಾಣುತ್ತ, ಮಹಾಲಕ್ಷ್ಮೀದೇವಿಯರು ಭಕ್ತಿಯಿಂದ ಪತಿಯ ಸೇವೆ ಮಾಡುತ್ತಿರುವದನ್ನು ಕಾಣುತ್ತ, ಆ ಅನಂದನಿಲಯದಲ್ಲಿ ಪರಮಾನಂದನಾದ ಶ್ರೀಮನ್ನಾರಾಯಣನನ್ನು ಕಂಡು ಚರಣಕ್ಕೆರಗಿದ ರೋಮಾಂಚಕಾರಿ ಘಟನೆಯ ಚಿತ್ರಣ ಇಲ್ಲಿದೆ. ಕೇಳಿಯೇ ಆನಂದಿಸಬೇಕಾದ ಭಾಗ ಇಲ್ಲಿ ವಿವರಣೆಗೊಂಡ ಶ್ರೀಮದ್ ಭಾಗವತ ಮತ್ತು ಭಾಗವತತಾತ್ಪರ್ಯದ ವಚನಗಳು — श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः । सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ।। ११ ।। प्रवालवैडूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् । भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् । विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रावलिभिर्यथा नभः ।। १२ ।। श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः । प्रेङ्खश्रिता या कुसुमाकरानुगैर्विगीयमाना प्रियकर्म गायती ।। १३ ।। भागवततात्पर्यम् — प्रेङ्खश्रिताः याः विभूतयः ददर्श तत्राखिलसात्वतां पतिं श्रियः पतिं यज्ञपतिं जगत्पतिम् । सुनन्दनन्दप्रबलार्हणादिभिः स्वपार्षदमुखैः परिसेवितं विभुम् ।। १४ ।। भागवततात्पर्यम् । “सत्वं तु शोभनत्वं स्यात् तद्युक्ताः सात्वता मताः” इत्यध्यात्मे । “मुक्तैः स्वपार्षदैः पूर्वैर्ब्रह्माद्यैश्चैव संयुतम् । ब्रह्मा ददर्श तपसा भगवन्तं हरिं प्रभुम्” इति गारुडे । भृत्यप्रसादाभिमुखं दृगासवैः प्रसन्नहासारुणलोचनाननम् । किरीटिनं कुण्डलिनं चतुर्भुजं पीतांशुकं वक्षसि लक्षितं श्रिया ।। १५ ।। अध्यर्हणीयासनमास्थितं परं वृतं चतुष्षोडशपञ्चशक्तिभिः । युक्तं भगैः स्वैरितरत्र चाध्रुवैः स्व एव धामन् रममाणमीश्वरम् ।। १६ ।। भागवततात्पर्यम् । “इच्छाद्या मोचिकाद्याश्च अणिमाद्याश्च शक्तयः । प्रदिष्टा वासुदेवाद्या दामोदरपरास्तथा । अङ्गानि विमलाद्यास्तु प्रह्व्याद्यात्मादिका मताः ।। एवं षोडशभिश्चैव पञ्चभिश्च हरिः स्वयम् । चतुर्भिश्च वृतो नित्यं तत्स्वरूपाश्च शक्तयः” इति भागवततन्त्रे । तद्दर्शनाह्लादपरिप्लुतान्तरो हृष्यत्तनुः प्रेमभराश्रुलोचनः । ननाम पादाम्बुजमस्य विश्वसृग् यत् पारहंस्येन पथाऽधिगम्यते ।। १७ ।। तं प्रीयमाणं समुपस्थितं कविं प्रजाविसर्गे निजशासनार्हणम् । बभाष ईषत् स्मितशोचिषा गिरा प्रियः प्रियं प्रीतमनाः करे स्पृशन् ।। १८ ।।
Play Time: 47:15
Size: 5.51 MB