29/04/2019
ನಮ್ಮ ಸಾಧನೆಯ ಜೀವನದಲ್ಲಿ ನಮಗಿರಬೇಕಾದ ಎಚ್ಚರಗಳೇನು ಎನ್ನುವದನ್ನು ಸ್ವಯಂ ಭಗವಂತ ತಿಳಿಸಿಕೊಟ್ಟು, ತಾನು ಯಾವುದರಿಂದ ಪ್ರೀತನಾಗುತ್ತೇನೆ, ಯಾವ ತಪಸ್ಸಿನಿಂದ ಪ್ರೀತನಾಗುವದಿಲ್ಲ ಎಂದು ತಿಳಿಸಿ ಹೇಳಿ ವರವನ್ನು ಬೇಡಲು ಬ್ರಹ್ಮದೇವರಿಗೆ ಆದೇಶಿಸುತ್ತಾನೆ. ಆ ಬ್ರಹ್ಮದೇವರು, ಸಮಗ್ರ ಸಜ್ಜೀವಪ್ರಪಂಚಕ್ಕೆ ಪಾಠ ಕಲಿಸುತ್ತ, ನಾಲ್ಕು ಅದ್ಭುತವಾದ ವರಗಳನ್ನು ಕೇಳುತ್ತಾರೆ. ನಮ್ಮ ಬದುಕನ್ನು ಬದಲಾಯಿಸುವ ಬ್ರಹ್ಮದೇವರ ವಚನಗಳಿವು. ತಪ್ಪದೇ ಕೇಳಿ. ನಮ್ಮ ಶ್ರೀಮದಾಚಾರ್ಯರ ಸಿದ್ಧಾಂತ ಸನಾತನವಾದ ಸಿದ್ಧಾಂತ, ಸಾಕ್ಷಾತ್ ಬ್ರಹ್ಮದೇವರಿಂದ ಅನುಷ್ಠಾನ ಮಾಡಲ್ಪಟ್ಟ ಸಿದ್ಧಾಂತ ಎನ್ನುವದನ್ನು ಇಲ್ಲಿ ಮನಗಾಣುತ್ತೇವೆ. ಇಲ್ಲಿ ವಿವರಣೆಗೊಂಡ ಶ್ರೀಮದ್ ಭಾಗವತ ಮತ್ತು ಭಾಗವತತಾತ್ಪರ್ಯನಿರ್ಣಯಗಳ ವಚನಗಳು — श्रीभगवानुवाच — त्वयाऽहं तोषितः सम्यग् वेदगर्भ सिसृक्षया । चिरं भृतेन तपसा दुस्तोषः कूटयोगिनाम् ।। १९ ।। वरं वरय भद्रं ते वरेशं माऽभिवाञ्छितम् । सर्वश्रेयःपरिश्रामः पुंसां मद्दर्शनावधिः ।। २० ।। मनीषितानुभावोऽयं मम लोकावलोकनम् । यदुपश्रुत्य रहसि चकर्थ परमं तपः ।। २१ ।। भागवततात्पर्यम् — मनीषितं तपः । प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते । तपो मे हृदयं साक्षादात्माऽहं तपसोऽनघ ।। २२ ।। सृजामि तपसैवेदं ग्रसामि तपसा पुनः । बिभर्मि तपसा विश्वं वीर्यं मे दुस्तरं तपः ।। २३ ।। भागवततात्पर्यम् — कर्मविमोहिते इदं कार्यमित्यजानति । हृदयं प्रियम् । “हृदयं प्रियमुद्रिक्तं कान्तमित्यभिधीयते” इत्यभिधानात् । “तपः प्रियं सदा विष्णोस्तपसैवाऽप्यते हरिः । स्वयं च तपसैवेदं बिभर्ति ज्ञानमेव हि ।। तपःशब्दाभिधं प्रोक्तं ज्ञानरूपो हरिर्यतः । ञानवीर्यो ज्ञानबलो ज्ञानानन्द उदीरितः” इति बृहत्संहितायाम् । ब्रह्मोवाच — भगवन् सर्वभूतानामध्यक्षोऽवस्थितो गुहाम् । वेद ह्यप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम् ।। २४ ।। अथापि नाथमानाय नाथ नाथय नाथितम् । परावरे यथा रूपे जानीयां ते त्वरूपिणः ।। २५ ।। यथाऽऽत्ममायायोगेन नानाशक्त्युपबृंहितः । विलुम्पन् विसृजन् गृह्णन् बिभ्रदात्मानमात्मना ।। २६ ।। क्रीडस्यमोघसङ्कल्प ऊर्णनाभिर्यथोर्णुते । तथा तद्विषयां धेहि मनीषां मयि माधव ।। २७ ।। भगवच्छिक्षितमहं करवाणि ह्यतन्द्रितः । नेहमानः प्रजासर्गं बध्येयं यदनुग्रहात् ।। २८ ।। यावत्सखा सख्युरिवेश ते कृतः प्रजाविसर्गे विभजामि भोजनम् । अविक्लवस्ते परिकर्मणि स्थितो मा मे समुन्नद्धमदोऽजमानिनः ।। २९ ।।
Play Time: 54:28
Size: 5.51 MB