28/07/2019
ದೇವಕೀದೇವಿ ದೇವಕರ ಮಗಳು. ದೇವಕರ ತಂದೆಯ ಆಹುಕರು ತಮ್ಮ ಮೊಮ್ಮಗಳು ದೇವಕಿಯನ್ನು ತಮ್ಮ ಮಗಳನ್ನಾಗಿ ಸ್ವೀಕರಿಸುತ್ತಾರೆ, ಅದಕ್ಕೆ ಕಾರಣವೇನು ಎಂಬ ಪ್ರಶ್ನೆಗೆ ಉತ್ತರ ನೀಡುವದರೊಂದಿಗೆ ದೇವಕಿಯ ಅದ್ಭುತ ಗುಣಗಳ ಚಿಂತನೆ ಇಲ್ಲಿದೆ. ದೇವಕೀದೇವಿಯರು ಅದಿತಿದೇವಿಯರ ಅವತಾರ. ವಿದುರರು ದೇವಕಿಯ ಕುರಿತು ಪ್ರಶ್ನೆ ಮಾಡುವಾಗ ದೇವಕಿಗೆ ಅದಿತಿಯನ್ನೇ ದೃಷ್ಟಾಂತವನ್ನಾಗಿ ನೀಡುತ್ತಾರೆ. ಅದರ ಕಾರಣದ ವಿವರಣೆ ಇಲ್ಲಿದೆ. “भद्रं नो अपि वातय मनोदक्षमुत क्रतुम्” ಎಂಬ ವೇದಮಂತ್ರಕ್ಕೆ ಶ್ರೀಮದ್ವಿಜಯಧ್ವಜಾಚಾರ್ಯರು ತಿಳಿಸಿದ ಎರಡು ಅಪೂರ್ವ ಅರ್ಥಗಳ ವಿವರಣೆ ಇಲ್ಲಿದೆ. ಧರ್ಮ, ಭೀಮ, ಅರ್ಜುನ, ನಕುಲ, ಸಹದೇವ. ಕುಂತಿಯರನ್ನು ವಿದುರರು ನೆನೆಸಿಕೊಳ್ಳುವ ರೀತಿಯೇ ಅದ್ಭುತ. ಎಲ್ಲರ ಕುರಿತೂ ಚನ್ನಾಗಿದ್ದಾರಾ ಎಂದು ಪ್ರಶ್ನೆ ಮಾಡುವ ವಿದುರರು ಧೃತರಾಷ್ಟ್ರನ ಕುರಿತು ಮಾತ್ರ ಕುಶಲಪ್ರಶ್ನೆ ಮಾಡದೆ ಅವನ ಕುರಿತು ದುಃಖ ಪಡುತ್ತಾರೆ. ನಾವು ಕಲಿಯಬೇಕಾದ ಅದ್ಭುತ ಪಾಠವನ್ನು ಆ ಮುಖಾಂತರ ತಿಳಿಸುತ್ತಾರೆ. कच्चिच्छिवं देवकभोजपुत्र्या विष्णुप्रजाया इव देवमातुः। या वै स्वगर्भेण बभार देवं त्रयी यथा यज्ञवितानमर्थम्॥३३॥ “बभूव गन्धर्वमुनिस्तु देवकः स आस सेवार्थमथाऽऽहुकाद्धरेः। स उग्रसेनावरजस्तथैव नामास्य तस्मादजनि स्म देवकी। अन्याश्च याः कश्यपस्यैव भार्या ज्येष्ठां तु तामाहुक आत्मपुत्रीम्। चकार तस्माद्धि पितृष्वसा सा स्वसा च कंसस्य बभूव देवकी” — महाभारततात्पर्यनिर्णये द्वादशोध्यायः। अपिस्विदास्ते भगवान् सुखं वा यः सात्वतां कामदुघोऽनिरुद्धः। यमामनन्ति स्म हि शब्दयोनिं मनोमयं सत्वतुरीयमर्थम्॥३४॥ अपिस्विदन्ये च निजात्मदैव- मनन्यवृत्त्या समनुव्रता ये। हृदीकसत्यात्मजचारुदेष्ण- गदादयः स्वस्ति चरन्ति सौम्य॥३५॥ अपिस्वदोर्भ्यां विजयाच्युताभ्यां धर्मेण धर्मः परिपाति सेतुम्। दुर्योधनोऽतप्यत यत्सभायां साम्राज्यलक्ष्म्या विजयानुवृत्त्या॥३६॥ “अस्यानुवृत्तिर्विजयाय नः स्याच्छुभाय शान्त्यै परतश्च मुक्त्यै” किं वा कृताघेष्वघमत्यमर्षी भीमो गदी दीर्घतमं व्यमुञ्चत्। यस्याङ्घ्रिपातं रणभूर्न सेहे मार्गं गदायाश्चरतो विचित्रम्॥३७॥ भागवततात्पर्यम् — अधं व्यमुञ्चत् पुनरपराधबुद्धिं मुक्त्वाऽऽस्ते ॥ कच्चिद् यशोधा रथयूथपानां गाण्डीवधन्वोपरतारिरास्ते। अलक्षितो यच्छरकूटगूढो मायाकिरातो गिरिशस्तुतोष ॥३८॥ यमावुतस्वित् तनयौ च माद्र्याः पार्थैर्वृतौ पक्ष्मभिरक्षिणीव। रेमात उद्धृत्य मृधे स्वरिक्थं सुधां सुपर्णाविव वज्रिवक्त्रात्॥३९॥ अहो पृथाऽपि ध्रियतेऽर्भकार्थे राजर्षिवर्येण विनाऽपि तेन। यस्त्वेकवीरोऽतिरथो विजिग्ये धनुर्द्वितीयः ककुभश्चतस्रः॥४०॥ सौम्यानुशोचे तमधःपतन्तं भ्रात्रे परेताय विदुद्रुहे यः। निर्यापितो येन सुहृत् स्वपुर्या अहं स्वपुत्रान् समनुव्रतेन॥४१॥ सोऽहं हरेर्मर्त्यविडम्बनेन दृशो नृणां चालयतो विधातुः। नान्योपलक्ष्यः पदवीं प्रसादात् चरामि पश्यन् गतविस्मयोऽत्र॥ ४२ ॥ श्रीमद्विजयध्वजीयम् — विधातुः कृष्णस्य पदवीं निवृत्तिमार्गं चरामि। पश्यन् ,संसारिणां क्लेशमिति शेषः। यादुपत्यम् — पुरान्निर्यापितस्य तव मनसि किं खेदः? नेत्याह — सोऽहमिति।
Play Time: 48:01
Size: 5.51 MB